Book Title: Sarangmuni Pranit Sukti Dwatrinshika
Author(s): Amrut Patel
Publisher: ZZ_Anusandhan
View full book text
________________ September-2006 37 परितुष्टिप्रदार्थां प्राकृतगाथामाह - मूल गाथा - इय ससिगणधरवायग-साराणं पउमसुंदरगुरूणं / / सीसेण कया एसा पसरउ पुण सुयणजणमुहओ // 33 // व्याख्या - 'इति' इति ग्रन्थान्तमङ्गलोऽव्ययः, एषा पद्मसुन्दरगुरूणां शिष्येण प्राक्कथिताह्वसारङ्गेण कृता रचिता 'सूक्तिद्वात्रिंशिका', पुनः भूयो भूयः सुजनजनमुखात् प्रसरतु विस्तृणातु / अत एव यथा मया 'सुदंतबत्रीसी' भाषिता तथा सर्वेपि सज्जनाः स्वयशोनुभूत्यै 'सुवाक्यद्वात्रिंशिका' मेव वक्तुमुद्यता भवन्त्विति द्वितीयोऽप्यनुशिष्टलक्षणोऽर्थोऽवसेयः, किंविशिष्टानां पद्मसुन्दरगुरूणां? - शशिगण० चन्द्रगच्छे महडाहडीयशाखायामित्याध्याहारः / वराः प्रधानाः वाचकाः वाचनाचार्याः तेषां मध्येपि साराणामुत्तमानामिति स्वगुरुणां सद्गुणवत्ताप्रतिपादकं वचः सौख्यकरं श्रेयोर्थमिति स्वविनयतादिकरणकारणमिति / सम्पूर्णेयं 'सूक्तिद्वात्रिंशिका' // 33|| अथ कदाऽयं ग्रन्थः सञ्जात इति शङ्कानिराकरणाय विवरणान्ते श्लोकमाह पञ्चाशनृपसङ्ख्याके वर्षे विक्रमवत्सरात् / चैत्रशुक्लत्रयोदश्यां ग्रन्थोऽयं रचितो मुदा // 34 // द्वात्रिंशतां दोधकानां वृत्तैरत्यात्मबोधये / विवृतोऽपि स्वयं शीघ्रं विशोध्योऽतिविचक्षणैः // 35 / / श्रीजावालपुरे प्राज्यं राज्यं शासति शक्तितः / गजनीयवनाधीशे तरुणे तरणिप्रभौ // 36 / / यावच्छशि-रवी दीपमणी भातौ नभोगृहे / तावददोधकवृत्तानी-मानि नन्दन्तु सन्मुखे // 37 / / इति सूक्तिद्वात्रिंशिकाविवरणं समाप्तमिति, ग्रन्थाग्रवृत्तिसङ्ख्या 198 / श्रीरस्तु, कल्याणमस्तु / सूत्रग्रन्थ 50 / पं० नयनसुन्दरगणिनाऽलेखि ॥श्रीः।। 203, B. एकता एवन्यू, बेरेज रोड, वासणा, अमदावाद-७ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Page Navigation
1 ... 16 17 18