Book Title: Sarangmuni Pranit Sukti Dwatrinshika
Author(s): Amrut Patel
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 17
________________ 36 अनुसन्धान ३६ श्रावयतिर- एकं तु लक्षसुखकारणं, अन्यद् दुरन्तं शिरःशूलं सन्तापजनकं भवेदिति भावार्थः ॥३०॥ सोऽपवादः परवस्तुविनाशा-ऽपहतिलक्षण एवेति, तद्धे तुमुदीर्य शिक्षयतिमूल दोहा - परमचीज परवस्तु परि, न धरहु जोर निसंक । सीत हरण रावण सधरु, रुलिओ जिही बिधि रंक ॥३१॥ व्याख्या - परमचीज इति भाषान्तरेणाऽत्यन्तमनोहरं वस्तु, तदुपरि भो ! सुगुणा: ! निःशङ्कम् निर्भयं यथा स्यात्तथा, जोर इति दुर्वृत्त्याऽऽलम्बं मा धरत मा प्रयुङ्ग्ध्वमित्यन्वयः । तद् द्रढयितुं दृष्टान्तं दर्शयति - यतः सीताहरणेन, सधरस्त्रिभुवनविजेताऽपि, रावणः रङ्कवत् यथा रुलितोऽर्थात् दुःखमनुभूय निस्सारमेव मृतः, तथाऽन्योऽपि भवतीति कुत्सिताचारः परिहार्यः इति शेषः ॥३१॥ सोऽपि लङ्कापतिर्यदा स्वविपद्विनिष्ठायै विमनस्कतयाऽपि स्वयं सीतामादरपूर्वकं समर्प्य रामेण सङ्गतोऽभविष्यत्तदा रामोऽपि विगतरुडभविष्यत्इति सत्यमेवाऽर्थं सङ्केतयति - मूल दोहा - रुचि अणरुचि सारंग ! रुचिर, परसे जगपति पाउ । जाणत अरु अणजाण कुं, सीत सुधासद भाउ ॥३२॥ व्याख्या - अत्र ग्रन्थपरिसमाप्त्यवसरमङ्गलाय कवि: स्वाभिधानग्रहणेनात्मानुशासनविधये च, श्रीभगवच्चरणशरणरूपं श्रेयोऽनुशासनं निरूपयतिहे सारंग ! इति स्वपरप्रबोधकमामन्त्रणं, रुच्या स्वमनः सुपरिणत्या, तथा कार्यसिद्ध्यर्थम् - ! अरुच्याऽपि विमनस्कतया, जगत्पतेः परमेश्वरस्य पदौ स्पृष्टौ शरणीकृतौ रुचिरावेव सन्तापहारकावित्यममुमेवार्थं याथातथ्येनैकस्यैव वस्तुनः स्वभावस्वरूपं मनोगोचरीकृत्य स्पष्टयति - यथा जानते जनायेति यः पूर्वस्पृष्टामृतः शैत्यमवैति, तथा चाऽज्ञानाय, येन कदाचिदपि तत्स्वभावो न ज्ञातः, परमुभाभ्यां स्पृशद्भ्यां सुधायाः पीयूषस्य स्वभाव: शीतस्तापनुदेव, परं कथमपि सहजवैपरीत्यं न स्यादिति । समाप्तोऽयं ग्रन्थः ॥३२॥ अथाऽनन्तरं स्वगण-गुरुनाम निरूपका स्वकृतिप्रसरणकारणस्वजन Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 15 16 17 18