Book Title: Sarangmuni Pranit Sukti Dwatrinshika
Author(s): Amrut Patel
Publisher: ZZ_Anusandhan
View full book text
________________
34
अनुसन्धान ३६
त्पादनप्रकारं, रचयन्ति कुर्वन्ति, तदा तान् मा विराधयत, मौनमालम्ब्य सेवध्वम्, हे मित्राणि ! सज्जना इति प्रबोधः, यदुक्तम्
___"बहुभिर्न विरोद्धव्यं, दुर्जयो हि महाजनः" [ ] इति वचोयुक्त्या तत्र लोकोक्त्यां व्याख्यानकथनेन दृष्टान्तद्वयं दर्शयति-यथा तिलपिण्डस्य कालिमा कुट्टनेन मिश्रीभूता कियती निःकास्यते, तत्र मौनमेव विधेयम्, पुनर्यथा पालितानां भरस्य रीतिः समागमस्तं कथं निराकर्तुं शक्तिर्विस्फुरति, समयौचित्यमेव विचिन्त्य तिरस्कारो न श्रेयानेव - इति स्पष्टार्थः ॥२५॥
इत्थं विरुद्ध-वल्लभविधिरुक्तः, परं कश्चित् परोऽपि सन् कदाऽपि केनचित् प्रकारेण प्रेमाऽऽविष्कुरुते, तदा किं करणीयमिति पृष्टे प्रत्युत्तरमाश्रयतिमूल दोहा - पर जब चिंतइ परमु हित, मिलि तबु दीजहि मांन ।
दोषसमै सुख देण कुं, ओषध सओ नाही आंन ॥२६।। व्याख्या - यदा परोऽपि पूर्वमनिष्टोपि कश्चित्, परमं हितं सुखकारित्वेन प्रेम चिन्तयति, तदा तेनापि सङ्गम्य, मानमित्यादरो दीयते, अमुमेवार्थं दृष्टान्तेन दृढयति- यथा दोषसमये रोगोत्पत्तौ, सौख्यं दातुमर्थात्, प्रीतिजननं, औषध-सदृशमन्यत् किञ्चिदपि वस्तु न स्यादिति तदा तत्कटुकतरमपीष्टं भवति- इति तत्त्वम् ॥२६||
___ तदप्यौषधं यदा स्वबन्धुसेवकादिभिः सुरक्षितं भवति, तदैव शुभमिति रक्षणाय प्रशस्ति निरूपयति - मूल दोहा - सारंग ! सकल सुवस्तु की रक्षकनि रुचि होइ ।
फेरि न फूहरि नारि के कुच अवलोकइ कोइ ।।२७|| व्याख्या - सकलस्य समस्तस्य सुवस्तुनः मनःप्रमोदजनकस्य पदार्थस्य रुचिरिच्छा, रक्षकविशेषादेव भवति । यदुक्तम्
"शस्त्रं शास्त्रं वाणी वेश्या वीणा नरस्तथा चाऽन्यत् ।
पुरुषविशेषं प्राप्ताः भवन्त्ययोग्याश्च योग्याश्च ॥ [ ] यदा रुचिरमपि कुचं न रक्षितमनिष्टतामुत्पादयति, तत्र हेतुं दर्शयति. यथा कश्चिदपि विलासी 'फूहडि' नार्याः देशविशेषोक्तिरियमिति, अर्थात्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 13 14 15 16 17 18