Book Title: Sarangmuni Pranit Sukti Dwatrinshika
Author(s): Amrut Patel
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 11
________________ 30 अनुसन्धान ३६ अतोऽग्रे तदेवोपदेशदर्शनद्वारा वदति इति धनवन्तो जनाः जबाधमिति जात्यन्तरमार्जारतनुसम्भूतं सुरभिवस्तु, तस्मै सन्तुष्टचित्ताः सन्त इति शेष:, पाणि मानदानकारणं दक्षिणहस्तं प्रसार्य गृह्णते, परं तदा जन्मस्थानगुणागुणतां न चर्चयन्ति इति भावः || १५ | - अथ च यथा सा पूर्वोक्तजबाधिः स्वगुणवशान्मान्या, तथा मान्यजनस्य पुनः लोकाः कलङ्ककारणमपि किञ्चिद् दृष्ट्वा न निन्दन्ति तत्र पुनर्हेतुं नो वक्ति अतोऽग्रे दोधके । स चाऽयम् मूल दोहा ? कुरित देखि समत्थ कुं, कोइ न देतु कलंक । अरधनारि नट ईश कुं नितु जन नमइ निशंक || १६ || व्याख्या समर्थस्य परमैश्वर्यवतो जनस्य कुचरित्रमपि दृष्ट्वा तद्भाग्यतः कोऽपि कलङ्कमपकीर्तिभावं न दत्ते । यथा दर्शयति नारीनटेश्वराय सकलजनमनोवाञ्छितपूरणप्रभावाऽनुभावतः निःशङ्कमिति सत्यभावनयैव लोका नित्यं सदा नमन्ति वन्दन्ते इति गुह्यम् ॥१६॥ अर्थ - 2 पूर्वोक्तस्येशस्य वपुःप्रतापेन महत्त्वमिति कथयितुमनाः पुनः सूचयतिमूल दोहा - वपु तप जहां तहां हइ विजयुं, किसहुं न वर विणु कार । झंपि न कोऊ दिढ अगनि सर, छूअति सकल जण छार ॥१७॥ Jain Education International व्याख्या येषां वपुषि शरीरे, अर्थात् स्वशक्तितोऽधिकः, प्रतापः समुल्लसति तेषामेव विजयोऽस्ति परं केषामपि बलं विना, कारः इति माहात्म्यं न भवति, यथापूर्वं तेजोवृत्तिमनुभूय, पश्चात् कथमपि निःप्रतापीभूतस्यैकस्यैव पदार्थस्योभयथाऽपि दृष्टान्तमुपदेशयति यथा कोऽपि जन: दृढाग्निज्वालां न झम्पयति, नवि (नाऽपि) दूरतोऽपि सङ्गन्तुमिच्छति, सैव भस्मभावं प्राप्ता, तदा तामेव सकलजगत् श्वान गर्दभादिप्रमुखमपि स्पृशति परं काञ्चिद भीतिमाकलयति, तथैवेदमपि रहस्यम् ॥१७॥ तत् पूर्वोक्तं प्रतापवत्त्वं क्षत्रियादिकुलजातस्यैव सम्भवति, न तु तद् होनकुलजातस्य इति प्रायोभावेनाऽमुमेवार्थं समर्थयति मूल दोहा - सन्तति सीत दुपाखकी, सहजि न उपजहि सूर । स्वाति - कदलीसुतउ सदा, भजि भजि जाइ कपूर ॥१८॥ fo - For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18