Book Title: Samyaktva Kaumudi Author(s): Jinharsh Gani, Vijayjinendrasuri Publisher: Harshpushpamrut Jain Granthmala View full book textPage 9
________________ सम्यक्त्वकौमुदी प्रथमः प्रस्ताव KXXXXXXXXXXXXXXXXXXXXXXXX असौ वाचंयमस्वामी मन्मनोऽम्भोधिचन्द्रमाः । क्वापि दृष्ट इवाभाति किंत्वेतन्न स्मराम्यहम् ॥ ४३ ॥ विमृश्यनिति भूभ" मूर्छया न्यपतद्भुवि । आः ! किमेतदिति वदन् मिमेल च परिच्छदः ॥ ४४ ॥ वीजितो व्यजनैः सिंच्यमानश्च चन्दनद्रवः। सस्मार प्राक्तनों जातिमुदस्थाच्च जवान्नृपः ॥ ४५ ॥ तं प्राग्जन्मगुरु ज्ञात्वा जातिस्मृत्या महीपतिः । आयासीद्वन्दितु वेगात्तदानन्दवशंवदः ॥ ४६ ॥ रथोपरि स्थितां नत्वा प्रतिमामहतो मुदा । पञ्चाङ्गस्पृष्टभूपीठः स ननाम गुरु पुनः ॥ ४७॥ . स्वकरौ कुड़मलीकृत्य ततः प्रोवाच पार्थिवः । कोऽहमस्मि प्रभो ! यूयं मा जानीताधुना न वा ॥४८॥ आचार्योऽप्यूचिवान् राजन् ! त्वां त्रिखण्डमहीपतिम् । कस्कोऽधुना न जानाति ? विवस्वन्तमिवोदितम् ॥ ४६ ॥ विश्वेऽधुना स्फुरत्युच्चे यधव्यवस्थितिः । भवतो यस्य माहात्म्याद्गुरोरिव गुणोन्नतिः ॥ ५० ॥ नैतद्भवपरिज्ञानं विभो ! पृच्छामि किं त्वहम् । स्वरूपं प्राग्भवस्यास्मि जिज्ञासुभवतोऽन्तिके ॥ ५१॥ राज्ञेत्युक्ते गुरुः स्माह ज्ञात्वा श्रौतोपयोगतः । भवे प्राच्ये महाराज ! त्वमासीदु गतेश्वरः ॥ ५२ ॥ अस्माकं संनिधौ प्राप्याव्यक्तसामायिकव्रतम् । तत्पुण्यस्यानुभावेन त्वमभूः संप्रतिनृपः ॥ ५३॥ ततः समग्रं भूपालचरित्रं प्राक्तनं गुरुः । आचख्यौ तत्र लोकानां समक्षं बोधिहेतवे ॥ ५४ ।। श्रुत्वा स्वरूपं भूपालस्तदा प्राग्भवसंभवम् । गुरु विज्ञपयामास सञ्जातप्रत्ययः सुधीः ॥ ५५ ॥ त्वं प्रसीद प्रभो! मह्य राज्यं स्वीकुरु सांप्रतम् । किञ्चिदप्यनृणीमावं स्वामिन्नहमपि श्रये ॥ ५६ ॥ XXXXXXXXXXXXXXXXXXXXXXXXX ॥ ५॥Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 220