Book Title: Samyaktva Kaumudi
Author(s): Jinharsh Gani, Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
सम्यक्त्व
कौमुदी
119 11
**************
ध्यानं दुःखनिधानमेव तपसः सन्तापमात्रं फलं, स्वाध्यायोऽपि हि वन्ध्य एव सुधियां तेऽभिग्रहाः कुग्रहाः । अश्लीलाः खलु दानशीलतुलना तीर्थादियात्रा वृथा, सम्यक्त्वेन विहीनमन्यदपि यत् तत्सर्वमन्तगंडु ॥ ७० ॥ अस्मादुत्कृष्टमन्यन्नो वस्त्वस्ति त्रिजगत्यपि । रत्नराज्यादिलाभेभ्योऽप्यस्य लाभोऽधिकः स्मृतः ॥ ७१ ॥ यतः - सम्यक्त्वरत्नान्न परं हि रत्नं सम्यक्त्वमित्रान्न परं हि मित्रम् ।
सम्यक्त्वबन्धोर्न परो हि बन्धुः सम्यक्त्वलाभान्न परो हि लाभः ॥ १ ॥ संसारसागरस्तावदुदुस्तरः प्राणिनां भवेत् । तावद्दुः खोदयस्तीत्रो न यावद्बोधिराप्यते ॥ ७२ ॥ तिर्यग्नारकयोर्गत्योर्द्वारे सम्यक्त्वमर्गला । निर्वाणमानव स्वर्गसुखद्वारै ककुञ्चिका ॥ ७३ ॥ सर्वविदेवता मेऽस्तु सर्वदोषविवर्जितः । ज्ञानदर्शनचारित्रालङ्कृता गुरवस्तथा ॥ ७४ ॥ अर्हत्प्रणीतो धर्मश्च क्षमादिदशभेदभृत् । ईदृशः परिणामो यः सम्यक्त्वं तन्निगद्यते ॥ ७५ ॥ युग्मम् || मिथ्यात्वमोहनीयस्य क्षयादिभिरनेकधा । एवंविधपरीणामो जन्तोः पुण्योदयाद्भवेत् ॥ ७६ ॥ यतः - क्षायिकोपशमिकं प्रथमं तत्प्राहुरौपशमिकं च तथाऽन्यत् ।
क्षायिकं च निगदन्ति जिनेन्द्राः कर्मणः क्षयशमादिविभेदात् ॥ १ ॥ वश्येन्द्रियाः सकलजीवकृपालवो ये द्रव्यादिभावनिपुणाः सुगुणानुरागाः । औचित्य कृत्यनिरता गुरुदेवभक्ताः शङ्कादिदोषरहिताः सततं प्रशान्ताः ॥ ७७ ॥
(************************
प्रथमः प्रस्तावः
116 11

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 220