Book Title: Samyaktva Kaumudi
Author(s): Jinharsh Gani, Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
सम्यक्त्व
कौमुदी
1120 11
तत्रैव नगरे श्रीमान् जिनधर्मप्रभावकः । उद्दामतममिध्यात्वतिरस्कारै कभास्करः ॥ १०३ ॥ स्वभ्रुजोपार्जितानेकद्रव्यकोटिव्य योज्ज्वलः । अर्हद्दासोऽभवत् श्रेष्ठी सम्यग्दृष्टिषु विश्रुतः ॥ १०४ ॥ युग्मम् ॥ मित्रश्रीश्चन्द्रश्रीश्च विष्णुश्रीरपरा पुनः । नागश्रीः पञ्चमी पद्मलता स्वर्णलता तथा ॥ १०५ ॥ विद्युल्लताभिघा कुन्दलतेति प्रथिताह्वयाः । आसंस्तस्याष्ट गेहिन्यो देहिन्य इव सिद्धयः ॥ १०६ ॥ सद्दर्शनमहारङ्गरङ्गमण्डपनाटिकाः । आद्याः सप्त पुनः कुन्दलता मिध्यात्वमोहिता ॥ १०७ ॥ व्यतीचारं गृहाचारं पालयन् कलयन् गुणान् । भुञ्जानः स सुखं ताभिः समं लेभे श्रियः फलम् ।। १०८ ॥ अवकेशी तरुः केषां केषांचिद्विषपादपः । नृभवः पुण्यलभ्योऽयमन्येषां देवभूरुहः ॥ १०६ ॥
बालकाभाः श्रियः कस्य कस्यचिज्जातिसन्निभाः । कस्यापि कदलीतुल्याः कस्य त्वाम्रतरूपमाः ॥ ११० ॥ यतः - काचिद्वालकवन्महीतलगता मूलच्छिदाकारणं द्रव्योपार्जन पुष्पिताऽपि विफला काचित्तु जातिप्रभा । काचित् श्रीः कदलीव भोगसुभगा सत्पुण्यबीजोज्झिता सर्वाङ्ग सुभगा रसाललतिकावत् कस्य संपद्यते ॥ १ ॥
अथा खिलसुरश्रेणिशीर्षे शेखरितक्रमः । जगत्त्रयजनाभीष्टघटना त्रिदशद्रुमः ॥ १११ ॥ अपश्चिमजिनाधीशो वैभारोर्वीधरोपरि । सर्वज्ञः समवासार्षीन्महर्षिश्रेणिसंश्रितः ॥ ११२ ॥ युग्मम् ॥ दुन्दुभीनां दिवि श्रुत्वा गम्भीरमधुरं ध्वनिम् । दृष्ट्राऽन्योन्यविरुद्धानां जन्तूनां सङ्गमं पुनः ॥ ११३ ॥ तदान्तर्मानसं दध्यावेवमुद्यानपालकः । लोकोत्तरमिदं किश्चिन्मां प्रीणयति सांप्रतम् ॥ ११४ ॥
KXXX
प्रथमः प्रस्तावः
1120 11

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 220