SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्व कौमुदी 1120 11 तत्रैव नगरे श्रीमान् जिनधर्मप्रभावकः । उद्दामतममिध्यात्वतिरस्कारै कभास्करः ॥ १०३ ॥ स्वभ्रुजोपार्जितानेकद्रव्यकोटिव्य योज्ज्वलः । अर्हद्दासोऽभवत् श्रेष्ठी सम्यग्दृष्टिषु विश्रुतः ॥ १०४ ॥ युग्मम् ॥ मित्रश्रीश्चन्द्रश्रीश्च विष्णुश्रीरपरा पुनः । नागश्रीः पञ्चमी पद्मलता स्वर्णलता तथा ॥ १०५ ॥ विद्युल्लताभिघा कुन्दलतेति प्रथिताह्वयाः । आसंस्तस्याष्ट गेहिन्यो देहिन्य इव सिद्धयः ॥ १०६ ॥ सद्दर्शनमहारङ्गरङ्गमण्डपनाटिकाः । आद्याः सप्त पुनः कुन्दलता मिध्यात्वमोहिता ॥ १०७ ॥ व्यतीचारं गृहाचारं पालयन् कलयन् गुणान् । भुञ्जानः स सुखं ताभिः समं लेभे श्रियः फलम् ।। १०८ ॥ अवकेशी तरुः केषां केषांचिद्विषपादपः । नृभवः पुण्यलभ्योऽयमन्येषां देवभूरुहः ॥ १०६ ॥ बालकाभाः श्रियः कस्य कस्यचिज्जातिसन्निभाः । कस्यापि कदलीतुल्याः कस्य त्वाम्रतरूपमाः ॥ ११० ॥ यतः - काचिद्वालकवन्महीतलगता मूलच्छिदाकारणं द्रव्योपार्जन पुष्पिताऽपि विफला काचित्तु जातिप्रभा । काचित् श्रीः कदलीव भोगसुभगा सत्पुण्यबीजोज्झिता सर्वाङ्ग सुभगा रसाललतिकावत् कस्य संपद्यते ॥ १ ॥ अथा खिलसुरश्रेणिशीर्षे शेखरितक्रमः । जगत्त्रयजनाभीष्टघटना त्रिदशद्रुमः ॥ १११ ॥ अपश्चिमजिनाधीशो वैभारोर्वीधरोपरि । सर्वज्ञः समवासार्षीन्महर्षिश्रेणिसंश्रितः ॥ ११२ ॥ युग्मम् ॥ दुन्दुभीनां दिवि श्रुत्वा गम्भीरमधुरं ध्वनिम् । दृष्ट्राऽन्योन्यविरुद्धानां जन्तूनां सङ्गमं पुनः ॥ ११३ ॥ तदान्तर्मानसं दध्यावेवमुद्यानपालकः । लोकोत्तरमिदं किश्चिन्मां प्रीणयति सांप्रतम् ॥ ११४ ॥ KXXX प्रथमः प्रस्तावः 1120 11
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy