Book Title: Samay Prabhrutam Author(s): Gajadharlal Jain Shastri Publisher: Sanatan Jain Granthmalaya View full book textPage 4
________________ सनातननग्रंथमालायांस्वभावसहितत्वेन अनुपमा । एवं पूर्वार्द्धन नमस्कारं कृत्वा परार्द्धन संबंधाभिधेयप्रयोजनसूचनार्थ प्रतिज्ञां करोति । वक्ष्यामि किं समयपाहुडं समयप्राभृतं सम्यक् अयः बोधी यस्य स भवति समय आत्मा । अथवा समं एकी भावेनायनं गमनं समयः । प्राभृतं सारं सारशुद्धावस्था । समयस्यात्मनः प्राभृतं समयप्राभृतं । अथवा समयएव प्राभृतं समयप्राभृतं । इणं इदं प्रत्यक्षीभूतं ओ अहो भव्याः कथंभूतं सुदकेवलीमणिदं प्राकृतलक्षणबलात्केवलीशब्ददीर्घत्वं । श्रुते परमागमे केवलिभिः सर्वज्ञैर्भणितं श्रुतकेवलिभणितं । अथवा श्रुतकेव लिभणितं गणधरदेवकथितमिति । संबंधामिधेयप्रयोजनानि कथ्यते । व्याख्यानं वृत्तिग्रंथः व्याख्येयं व्याख्यानतत्प्रतिपादकसूत्रमिति । तयोस्संबंधो व्याख्यानव्याख्येयसंबंधः । सूत्रमभिधानं सूत्रार्थोभिधेयः तयोः संबंधोऽभिधानाभिधेयसंबंधः । निर्विकारस्वसंवेदनज्ञानेन शुद्धात्मपरिज्ञानं प्राप्तिर्वा प्रयोजनमित्यभिप्रायः॥१॥ अथ गाथापूर्वार्द्धन स्वसमयमपरार्द्धन परसमयं च कथयामीत्यभिप्रायं मनास संप्रधार्य सूत्रमिदं निरूपयति आत्मख्यातिः। नमः समयसाराय स्वानुभूत्या चकासते । चित्स्वभावाय भावाय सर्वभावांतरच्छिदे ॥१॥ अनंतधर्मणस्त त्वं पश्यंती प्रत्यगात्मनः । ___ अनेकांतमयी मूर्तिनित्यमेव प्रकाशतां ॥२॥ परपरिणतिहेतोर्मोहनाम्नोऽनुभावा दविरतमनुभाव्यव्याप्तिकल्माषितायाः। मम परमविशुद्धिः शुद्धचिन्मात्रमूर्त र्भवतु समयसारव्याख्ययैवानुभूतेः ॥३॥ अथ सूत्रावतारः वंदित्तु इत्यादि-- अथ प्रथमत एव स्वभावभावभूततया ध्रुवत्वमवलंबमानामनादिभावांतरपरपरिवृत्तिविश्रांतिवशेनाचलत्वमुपगतामखिलोपमानविलक्षणाद्भुतमाहात्म्यत्वेनाविद्यमानौपम्यामपवर्गसंज्ञकां गतिमापन्नान् भगवतः सर्वसिद्धान् सिद्धत्वेन साध्यस्यात्मनः प्रतिच्छंदस्थानीयान् भावद्रव्यस्तवाभ्यां स्वात्मनि परात्मनि च निधायानादिनिधनश्रुतप्रकाशितत्वेन निखिलार्थसार्थसाक्षात्कारिश्रुतकेवलिप्रणीतत्वेन श्रुतकेवलिभिः स्वयमनुभवद्भिरभिहितत्वेन च प्रमाणतामुपगतस्यास्य समयप्रकाशकस्य प्राभृताह्वयस्याहत्प्रवचनावयस्य स्वपरयोरनादिमोहप्रहाणाय भाववाचा द्रव्यवाचा च परिभाषणमुपक्रम्यते ॥१॥ तत्र तावत्समयएवाभिधीयते जीवो चरित्तदंसणणाणछिद तं हि ससमयं जाण । पुग्गलकम्मुवदेसहिदं च तं जाण परसमयं ॥ २ ॥ जीवश्चारित्रदर्शनज्ञानस्थितस्तं हि स्वसमयं जानीहि । पुद्धलकर्मप्रदेशस्थितं च तं जानीहि परसमयं ॥२॥ तात्पर्यवृत्तिः-जीवो चरित्त इत्यादि-जीवो शुद्धनिश्चयेन शुद्धबुद्धैकस्वभावनिश्चयप्राणेन तथैवा शुद्धानिश्चयेन बायोपशमिकाशुद्धभावप्राणैरसद्भूतव्यवहारेण यथासंभवद्रव्यप्राणैश्च जीवति जीविष्यति जीवितपूर्वो वा जीवः । चरित्तदंसणणाणहिद तं हि ससमयं जाण स च जीवश्चारित्रदर्शनज्ञानस्थितो यदा भवति तदा काले तमेव जीवं हि स्फुटं स्वसमयं जानीहि । तथा हि-विशुद्धज्ञानदर्शनस्वभावनिज परमात्मनि यद्दचिरूपं सम्यग्दर्शनं तत्रैव रागादिरहितस्वसंवेदनं ज्ञानं तथैव निश्चलानुभूतिरूपं वीतराग चारित्रमित्युक्तलक्षणेन निश्चयरत्नत्रयेण परिणतजीवपदार्थ हे शिष्य स्वसमयं जानीहि। पुग्गलकम्मुवदेसठिदं चतं जाण परसमयं पुद्गलकर्मोपदेशस्थितं च तमेव जानीहि परसमयं । तद्यथा-पुद्गलकर्मोदयेन जनिता ये नारकाद्युपदेशव्यपदेशाः संज्ञाः पूर्वोक्तनिश्चयरत्नत्रयाभावात्तत्र यदा स्थितो भवत्ययं जीवस्तदा तं जीवं परसमयंPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 250