Book Title: Samay Prabhrutam Author(s): Gajadharlal Jain Shastri Publisher: Sanatan Jain Granthmalaya View full book textPage 3
________________ नमः सिद्धेभ्यः। सनातनजैनग्रंथमाला। श्रीमद्भगवत्कुंदकुंदाचार्यविरचितं समयप्राभृतं । मंगलाचरणं। वंदित्तु सव्वसिद्धे धुवममलमणोवमं गर्दि पत्ते वोच्छामि समयपाहुडमिणमो सुदकेवलीभणिदं ॥१॥ वंदित्वा सर्वसिद्धान् ध्रुवामचलामनौपम्यां गतिं प्राप्तां । वक्ष्यामि समयमाभृतमिदं श्रुतकेवलिभणितं ॥१॥ तात्पर्यवृत्तिः। वीतरागं जिनं नत्वा ज्ञानानंदैकसंपदं । वक्ष्ये समयसारस्य वृत्तिं तात्पर्यसंक्षिकां ॥१॥ अथ शुद्धपरमात्मतत्त्वप्रतिपादनमुख्यत्वेन विस्तररुचिशिष्यप्रतिबोधनार्थं श्रीकुंदकुंदाचार्यदेवनिर्मिते समयसारप्राभृतग्रंथे अधिकारशुद्धिपूर्वकत्वेन पातनिकासहितव्याख्यानं क्रियते। तंत्रादौ वंदित्तु सव्वसिद्धे इति नमस्कारगाथामादिं कृत्वा सूत्रपाठक्रमेण प्रथमस्थले स्वतंत्रगाथाषट्कं भवति । तदनंतरं द्वितीयस्थले भेदाभेदरत्नत्रयप्रतिपादनरूपेण ववहारेणुवादिस्सदि इत्यादिगाथाद्वयं । अथ तृतीयस्थले निश्चयव्यवहारश्रुत केवलिव्याख्यानमुख्यत्वेन जो हि सुदेण इत्यादिसूत्रद्वयं । अतः परं चतुर्थस्थले भेदाभेदरत्नत्रयभावनार्थ तथैव भावनाफलप्रतिपादनार्थं च णाणह्मिभावणा इत्यादिसूत्रद्वयं । तदनंतरं पंचमस्थले निश्चयव्यवहारनयद्वयव्याख्यानरूपेण ववहारो भूदत्थो इत्यादिसूत्रद्वयं । एवं चतुर्दशगाथाभिः स्थलपंचकेन समयसारपीठिकाव्याख्याने समुदायपातनिका । तद्यथा-अथ प्रथमतस्तावद्गाथायाः पूर्वार्द्धन मंगलार्थमिष्टदेवतानमस्कारमुत्तरार्द्धन तु समयसारग्रंथव्याख्यानं करोमीत्यभिप्रायं मनसि धृत्वा सूत्रमिदं प्रतिपादयति । ___वंदित्तु इत्यादि । पदखंडनारूपेण व्याख्यानं क्रियते । वंदित्तु निश्चयनयेन स्वस्मिन्नेवाराध्याराधक हार्वरूपेण निर्विकल्पसमाधिलक्षणेन भावनमस्कारेण, व्यवहारेण तु वचनात्मकद्रव्यनमस्कारेण वंदित्वा कान् सबसिद्धे स्वात्मोपलब्धिसिद्धिलक्षणसर्वसिद्धान् । किं विशिष्टान् पत्ते प्राप्तान् कां गदि सिद्धगतिं सिद्धपरिणतिं । कथंभूतां धुवं टंकोत्कीर्णज्ञायकैकस्वभावत्वेन ध्रुवामविनश्वरां । अमलं भावकर्मद्रव्यकर्मनोकर्ममलरहितत्वेन शुद्धस्वभावसहितत्वेन च निर्मलां । अथवा अचलं इति पाठांतरे द्रव्यक्षेत्रादिपंचप्रकारसंसार भ्रमणरहितत्वेन स्वस्वरूपनिश्चलत्वेन च चलनरहितामचलां । अणोवमं निखिलोपमारहितत्वेन निरुपमाPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 250