Book Title: Sachitra Kalpasutra Author(s): Shreyansvijay Publisher: Jain Sangh View full book textPage 5
________________ Shri Mahnisi Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagiranmandir णायामात्रयस्त्रयः। प्रणवोपि-त्रिमात्रस्तुप्रयोक्तव्यःकारमेषुसर्वतइतिस्मृतेः । सर्वतइतिसार्वविभक्तिकस्तसिः। अनोंकृत्यकृतंसर्वनभवेत्सि द्धिकारकमितिशांतिहेमाद्रौयोगियाज्ञवल्क्योक्तेश्च ॥ ॥ विद्वत्तापि-नह्यविद्वान्विहितोस्तिहि विदुषएवकर्मण्यधिकारात् ॥ ॥ आपछंदोदैवतंचविनियोगस्तथैवच । ब्राह्मणेनप्रयत्नेनवेदितव्यंविपश्चिता । अविदित्वातुयःकुर्याद्याजनाध्यापनंजपम् । होममंतर्जलादीनि तस्वचाल्पफलंभवेदितितत्रैवतदुक्तेश्च-मंत्रार्थज्ञोजपन्जप्यंकुर्वन्नध्ययनंद्विजः । स्वर्गलोकमवाप्नोतिनरकंतुविपर्ययेइतिप्रयोगपारिजातव्या सोक्तेः । अविदित्वामुनिछंदोदैवतंयोगमेवच । योऽध्यापयेद्यजेद्वापिपापीयान्जायतेहिसः । ब्राह्मणंविनियोगचछंदआर्षचदैवतम् । अज्ञात्वा |पंचयोमंत्रेनसतत्फलमश्नुतइतिचंद्रिकायांव्यासोक्तेश्च । अयमेवऋष्यादिस्मरणक्रमः। यत्तुसर्वानुक्रमेऋषिदैवतच्छंदांस्यनुक्रमिष्या मोनह्येतज्ज्ञानमृतेश्रौतस्मातकर्मप्रसिद्धिरिति तदृग्वेदिपरम् । अथऋग्वेदाम्नायेशाकलकइत्युपक्रमात् । कृष्णभट्टीयेसंग्रहे-नचस्मरे दृषिच्छंदःश्राद्धेवैतानिकेमखे । ब्रह्मयज्ञेचवैतर्हियज्ञतर्पणकर्मणिइति ॥ ॥ कटिसूत्रंगृहस्थेनधार्यम् । कौपीनंकटिसूत्रंचब्रह्मचारीतुधारयेदिति यमोक्तस्यतस्य सर्वेषांचैतदविरोधीतिगौतमीयेगृहस्थादावतिदेशात् । गृहस्थस्यकौपीननिषेधानुपपत्तेश्चेतिकेचित् । तन्न । यत्किंचित्कुरुतेध | मैवैदिकंवाथतांत्रिकम् । कटिबंधेनसंयुक्तंसर्वतन्निष्फलंभवेत्। रौप्यंकासकहैमंपट्टसूत्रकृतंतथा । वर्जयेत्कर्मकालेषुकांचींविप्रोविशेषत इतिसं स्कारप्रयोगपारिजातेगृहस्थधर्मेष्वाश्वलायनोक्तेः। कटिबंधःकटिसूत्रबंधः । प्रकरणादृहस्थस्यैवायंनिषेधः । कर्मकालग्रहादकर्मकाले ननिषेधः । रौप्यादेरेवनिषेधेत्यंतादृष्टार्थत्वापत्तरौर्णादेरपिनिषेधः। श्रुतौ नम्लेच्छितवैनापभाषितवैम्लेच्छोहवाएषयदपशब्दइतितत्कर्मकालपरम् । पर्वाणस्तर्वाणोनामऋषयोबभूवुस्तेपर्वाणस्तर्वाणइतिप्रयोक्तव्येयद्वानस्तद्वानइतिप्रयुंजतयाज्ञपुनःकर्मणिनापभाषतइतिश्रुतेरितिकेचित् । अन्ये तु तेसुराहेलयोहेलयइतिवदंतःपराबभूवुरित्यकर्मकालेपिदोषश्रुतेरकर्मकालेप्यपभाषणेदोषइत्याहुः । पृथ्वीचंद्रोदयेनारदः-आसनेशयने For Private And PersonalPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 241