Book Title: Sachitra Kalpasutra Author(s): Shreyansvijay Publisher: Jain Sangh View full book textPage 9
________________ Shri Mah Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsa Syanmandir चन । व्याहरेद्वैष्णवमंत्रस्मरेद्वाविष्णुमव्ययम् । छंदोगपरिशिष्टे यत्रदिनियमोनस्याजपहोमादिकर्मसु । तिस्रस्तत्रदिशःप्रोक्ताऐंद्रीसौ म्यपराजिता । तत्रैव-यत्रोपदिश्यतेकर्मकर्तुरंगनकथ्यते । दक्षिणस्तत्रविज्ञेयःकर्मणांपारगःकरः। मनुः-कुत्सितेवामहस्तःस्याइक्षिणःस्या दकुत्सिते । छंदोगपरिशिष्टे-आसीनऊर्ध्वःप्रहोवानियमोयत्रनेदृशः । तदासीनेनकर्तव्यंनप्रहृणनतिष्ठता । श्राद्धदीपकलिकायां विष्णुः-दक्षिणाभिमुखःकर्मचरेपित्र्यंयथाविधि । उत्तराभिमुखोदैवमितिदिनियमःस्मृतः । पित्र्येदक्षिणामुखत्वंबढचेतरपरम् । तेषां पिंडपितृयज्ञप्रकरणेसर्वकर्माणितांदिशमितिसूत्रेपित्र्येआग्नेयीमुखत्वोक्तेः । कात्यायन:-मुख्यकालेयदावश्यकर्मकर्तनशक्यते । गौणका लेपिकर्तव्यंगौणोप्यत्रेदृशोभवेत् । त्रिकांडमंडन:-खकालादुत्तरःकालोगौणःसर्वस्वकर्मणः । उत्तरग्रहान्नपूर्वकालस्यगौणत्वम् । तेनसम स्यपक्षहोमादावल्पद्वादश्यांचमाध्याह्निकस्यचापकर्षे नप्रायश्चित्तम् । उत्तरकालावधिरुक्तोबृहन्नारदीये-दिवोदितानिकर्माणिप्रमादादकृता निवै। यामिन्याःप्रथमंयामयावत्कर्माणिकारयेत् । चंद्रोदयेसंग्रहे-रात्रौप्रहरपर्यंतंदिवाकर्माणिकारयेत् । ब्रह्मयज्ञंचसौरंचवर्जयित्वा |विशेषतः । रात्रीब्रह्मयज्ञनिषेधस्तैत्तिरीयेतरपरः। तस्यद्वावनध्यायौयदात्माऽशुचिर्यद्देशइतितत्सूत्रात्। तैत्तिरीयश्रुतौरात्रावपिब्रह्मयज्ञोक्ते श्च । नित्यश्राद्धमपिरात्रौवेतिवक्ष्यते । त्रिकांडमंडन:-यद्बागामिक्रियामुख्यकालस्याप्यंतरालवत् । गौणकालत्वमिच्छंतिकेचित्राक्तन | कर्मणि । इदंश्रौतपरम् । स्मृत्यर्थसारे-सर्वत्रगौणकालेषुकर्मचोदितमाचरन् । प्रायश्चित्तंव्याहृतिभिर्तुत्वाकर्मसमाचरेत् । प्रायश्चि |त्तमकृत्वावागौणकालेसमाचरेत् । अनयोःपक्षयोःशक्ताशक्तविषयत्वेनव्यवस्थेतिपारिजातः । रत्नावल्याम्-मुख्यकालंसमाश्रित्यगौ णमप्यस्तुसाधनम् । नमुख्यद्रव्यलोभेनगौणकालप्रतीक्षणम् । कालहेमाद्रौस्कांदे-यदाभवतिचाल्पातुद्वादशीघरुणोदये । उषःकाले द्वयंकुर्यात्यातर्माध्याह्निकंतदा । सर्वधर्मादिकंकृत्वाद्वादशींसाधयेन्नरः । यत्त्वतएवाब्दिकादिश्राद्धापकर्पोपीतिकेचित् । तन्न । तस्यापराहका For Private And PersonalPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 241