Book Title: Sachitra Kalpasutra
Author(s): Shreyansvijay
Publisher: Jain Sangh

View full book text
Previous | Next

Page 10
________________ Shri Mahavale Aradhana Kendra आचाररत्नं ॥६॥ www.kobatirth.org Acharya Shri Kailashsagarpur Gyanmandir लनियमात् । धर्मपदस्यप्रातर्माध्याह्निकपदाभ्यामुपसंहाराच्च ॥ ॥ शांतिहेमाद्रौ — तस्मात्सर्वप्रयत्नेनस्वसूत्रंनविलंघयेत् । वसिष्ठः-पारंपर्यागतोयेषांवेदः सपरिबृंहणः । तच्छाखंकर्मकुर्वीततच्छाखाध्ययनंतथा । वर्धमानपरिभाषायां - स्वशाखांयः समुत्सृज्यपरशाखा श्रयंद्विजः । कर्तुमिच्छतिदुर्मेधामोघतत्तस्ययत्कृतम् । शतातपः - सर्वश्रुत्युपसंहारादुक्तः श्रौतोयथाविधिः । सर्वस्मृत्युपसंहारात्स्मार्तोप्युक्त स्तथाविधिः । अस्यापवादश्छंदोग परिशिष्टे - बह्वल्पंवास्वगृह्येोक्तंयस्यकर्मप्रचोदितम् । तस्यतावतिशास्त्रार्थेकृतेसर्वः कृतोभवेत् । अत्र | कर्मोपासनाद्येवनतु श्राद्धादीतिस्मृतिरत्नावली - यत्तुस्वगृह्येनोक्तंयच्चसाकांक्षमुक्तंतत्परकीयमपिग्राह्यम् । तथाचकर्मप्रदीपे - यन्नाम्ना | तंखशाखायांपारक्यमविरोधिच । विद्वद्भिस्तदनुष्ठेयमग्निहोत्रादिकर्मवत् । अपरार्केप्येवम् । यत्त्वाशार्के— अक्रियात्रिविधाप्रोक्ताविद्वद्भिः | कर्मकारिणाम् । अक्रियाचपरोक्ताचतृतीयाचायथाक्रिया । परोक्तापरशाखोक्ता । तत्स्वगृह्यविरुद्धपरशाखोक्तनिषेधकम् । शक्तस्यसर्वस्मृत्युप संहारः । अशक्तस्यस्वगृह्येोक्तमितिनिष्कर्षः । आपस्तंबादीनांखसूत्रेऽनुक्तविशेषोयज्ञकांडे - आपस्तंबादिभिरपिस्वसूत्राभावतस्तथा । बौधायनोक्तंकर्तव्यमन्यथापतितोभवेत् । अग्निहोत्रादिकंचयच्छाखोक्तमाध्वर्यवंतदीयमेवांगीकार्यम् । आधानंयेनसूत्रेणतेनैवेज्यादिकाः क्रिया इतियज्ञपार्श्वोक्तेः । छंदोगपरिशिष्टे – प्रवृत्तमन्यथाकुर्याद्यदिमोहात्कथंचन । यतस्तदन्यथाभूतंततएवसमापयेत् । समाप्तेयदिजा | नीयान्मयैतदन्यथाकृतम् । तावदेवपुनः कुर्यान्नावृत्तिः सर्वकर्मणः । प्रधानस्याक्रियायांतुसांगंतत्क्रियतेपुनः । तदंगस्याक्रियायां तुनावृत्तिर्नच तत्क्रिया । अन्यथावैपरीत्येनेत्यर्थइतिहेमाद्रिः । तन्न । तदंगस्येत्यग्रिमग्रंथविरोधात् । गुणक्रमानुरोधेनप्रधानावृत्तेरन्याय्यत्वाच्च । अतस्त्या गस्तदर्थः । यतइति प्रयोगमध्येंगत्यागेप्रधानत्यागेवाज्ञातेतदारभ्यांगावृत्तिःप्रधानादि चकार्यमित्यर्थः । तावदेवेत्यंगपरम् । पुनस्त्वर्थे । तदंगस्येत्यंगांगपरम् । आवृत्तिःसांगप्रधानस्यतत्क्रियांगांगानुष्ठानं । तेनसांगप्रधानांगस्यांगांगस्य चोपवीतित्वादेरकरणे नसांगप्रधानप्रवृत्तिर्नापि For Private And Personal परिभाषा - ॥ ६॥

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 241