Book Title: Sachitra Kalpasutra
Author(s): Shreyansvijay
Publisher: Jain Sangh

View full book text
Previous | Next

Page 13
________________ Shri Maharlin Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsage Fyanmandir चंद्रिकायाम्-रात्रेस्तुपश्चिमोयामोमुहूर्तोब्राह्मउच्यते । स्मृतिरत्नावल्याम्-ब्राह्ममुहूर्तेयानिद्रासापुण्यक्षयकारिणी । तांकरोतितु योमोहात्पादकृच्छ्रेणशुद्ध्यति । एतन्निषिद्धकर्मश्रान्तनिद्रापरम् । अन्यथातूक्तंबहुचकारिकायाम्-अविध्युक्तक्रियाश्रांतमतिनिद्राव शंगतम् । अर्कोऽभ्युदेतिचेदह्नःशेषंस्थित्वासवाग्यतः । उदितेयस्यतेविश्वेत्य॒ग्भिश्चतसूभीरविम् । उपतिष्ठेतविहितकर्मश्रांतस्यनेष्यते । ब्राह्ममुहूर्तोत्थानमावश्यकत्वार्थम् । अंगिराः-उत्थायपश्चिमेयामेरात्रिवासःपरित्यजेत् । प्रक्षाल्यहस्तपादास्यान्युपस्पृश्यहरिस्मरेत् । वामनपुराणे-ब्राह्ममुहूर्तेबुद्ध्येतस्मरेदेववरानृषीन् । स्मृतिरशुचित्वेऽपि । यदास्यादशुचिस्तत्रस्मरेन्मंत्रंनतूचरेदितिनारसिंहात् ।। नाशुचिर्देवर्षिपितॄणांनामानिकीर्तयेदितिविष्णुभिन्नपरम् ॥ ॥ ब्राह्म-उत्थायमातापितरौपूर्वमेवाभिवादयेत् । आचार्यमथविप्रांश्च । भूमावेकेनपाणिना । इदंमूर्खकर्मके । अजाकणेनविदुषोमूर्खाणामेकपाणिनेतिविष्णूक्तेः। श्रोत्रसमौकरौकृत्वापुनःसंयुक्तेनकरद्वयेनेति मदनपारिजातः । अजावत्कर्णावानम्येतिवा । यत्तु-जन्मप्रभृतियत्किंचिद्वतंधर्मसमाचरेत् । सर्वतन्निष्फलंतस्यएकहस्ताभिवादना दितिमदनपारिजातेवचनं तद्भूम्यसंस्पृष्टपाणिपरम् ॥ ॥ अत्रप्रसङ्गात् अभिवाद्यनिर्णयः । जमदग्निः-देवताप्रतिमांदृष्ट्वाय तिंदृष्ट्वात्रिदंडिनम् । नमस्कारंनकुर्याचेदुपवासेनशुद्ध्यति । यतिग्रहणंमान्यमात्रपरमितिस्मृतिरत्नावल्याम् । यवीयसोमातुलादीन्नाभिवा दयेदित्याहगौतमः । ऋत्विक्श्वशुरपितृव्यमातुलानांप्रत्युत्थानमनभिवाद्याहितइति । बृहस्पतिः-जपयज्ञगणस्थंचसमित्पुष्पकुशानलान् । उदपात्रार्घभैक्षान्नंवहंतनाभिवादयेत् । नारदीये तथास्त्रानंप्रकुर्वतंजलमध्यगतंतथा । विवादशीलमशुचिंशयानंनाभिवादयेत् । शाता तपः-पाखंडंपतितंत्रात्य॑महापातकिनंशठम् । सोपानत्कंकृतघ्नंचनाभिवादेत्कदाचन । धावंतंचप्रमत्तंचमूत्रोच्चारकृतंतथा । उच्चारः १ नाभिवादेदितिछंदोनुरोधात् । नाभिवादयेदित्यर्थः । Hero For Private And Personal

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 241