________________
Shri Mah
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsa
Syanmandir
चन । व्याहरेद्वैष्णवमंत्रस्मरेद्वाविष्णुमव्ययम् । छंदोगपरिशिष्टे यत्रदिनियमोनस्याजपहोमादिकर्मसु । तिस्रस्तत्रदिशःप्रोक्ताऐंद्रीसौ म्यपराजिता । तत्रैव-यत्रोपदिश्यतेकर्मकर्तुरंगनकथ्यते । दक्षिणस्तत्रविज्ञेयःकर्मणांपारगःकरः। मनुः-कुत्सितेवामहस्तःस्याइक्षिणःस्या दकुत्सिते । छंदोगपरिशिष्टे-आसीनऊर्ध्वःप्रहोवानियमोयत्रनेदृशः । तदासीनेनकर्तव्यंनप्रहृणनतिष्ठता । श्राद्धदीपकलिकायां विष्णुः-दक्षिणाभिमुखःकर्मचरेपित्र्यंयथाविधि । उत्तराभिमुखोदैवमितिदिनियमःस्मृतः । पित्र्येदक्षिणामुखत्वंबढचेतरपरम् । तेषां पिंडपितृयज्ञप्रकरणेसर्वकर्माणितांदिशमितिसूत्रेपित्र्येआग्नेयीमुखत्वोक्तेः । कात्यायन:-मुख्यकालेयदावश्यकर्मकर्तनशक्यते । गौणका लेपिकर्तव्यंगौणोप्यत्रेदृशोभवेत् । त्रिकांडमंडन:-खकालादुत्तरःकालोगौणःसर्वस्वकर्मणः । उत्तरग्रहान्नपूर्वकालस्यगौणत्वम् । तेनसम स्यपक्षहोमादावल्पद्वादश्यांचमाध्याह्निकस्यचापकर्षे नप्रायश्चित्तम् । उत्तरकालावधिरुक्तोबृहन्नारदीये-दिवोदितानिकर्माणिप्रमादादकृता निवै। यामिन्याःप्रथमंयामयावत्कर्माणिकारयेत् । चंद्रोदयेसंग्रहे-रात्रौप्रहरपर्यंतंदिवाकर्माणिकारयेत् । ब्रह्मयज्ञंचसौरंचवर्जयित्वा |विशेषतः । रात्रीब्रह्मयज्ञनिषेधस्तैत्तिरीयेतरपरः। तस्यद्वावनध्यायौयदात्माऽशुचिर्यद्देशइतितत्सूत्रात्। तैत्तिरीयश्रुतौरात्रावपिब्रह्मयज्ञोक्ते
श्च । नित्यश्राद्धमपिरात्रौवेतिवक्ष्यते । त्रिकांडमंडन:-यद्बागामिक्रियामुख्यकालस्याप्यंतरालवत् । गौणकालत्वमिच्छंतिकेचित्राक्तन | कर्मणि । इदंश्रौतपरम् । स्मृत्यर्थसारे-सर्वत्रगौणकालेषुकर्मचोदितमाचरन् । प्रायश्चित्तंव्याहृतिभिर्तुत्वाकर्मसमाचरेत् । प्रायश्चि |त्तमकृत्वावागौणकालेसमाचरेत् । अनयोःपक्षयोःशक्ताशक्तविषयत्वेनव्यवस्थेतिपारिजातः । रत्नावल्याम्-मुख्यकालंसमाश्रित्यगौ णमप्यस्तुसाधनम् । नमुख्यद्रव्यलोभेनगौणकालप्रतीक्षणम् । कालहेमाद्रौस्कांदे-यदाभवतिचाल्पातुद्वादशीघरुणोदये । उषःकाले द्वयंकुर्यात्यातर्माध्याह्निकंतदा । सर्वधर्मादिकंकृत्वाद्वादशींसाधयेन्नरः । यत्त्वतएवाब्दिकादिश्राद्धापकर्पोपीतिकेचित् । तन्न । तस्यापराहका
For Private And Personal