Book Title: Sabhashya Tattvarthadhigam Sutrani
Author(s): Motilal Laghaji Oswal
Publisher: Motilal Laghaji Oswal

View full book text
Previous | Next

Page 8
________________ समये केचित्, एके इत्यादिसामान्यनिर्देशः क्वचिद् दृश्यते । तथापि इन्द्रियमिन्द्रलिङ्गमित्यादि (२-१५) द्रव्यं च भव्ये (१-५) इति व्याकरणविषये पाणिनिसूत्रादिकं दृश्यते । पेडा (१०-६ ) अनुवीचि (७-३) इति शब्दौ भाष्ये देशीभाषास्थावुपयोजितौ दृश्यते । यतः संस्कृतभाषायां पेडाशब्दो न लभ्यते कोशेषु । तथा अनुवीचिशब्दो देशीभाषास्थ इति सिद्धसेनगणिटीकायां प. ४३५ पं. २ निर्देशः। तन्मध्ये मेरुरित्यादि ३।९ सूत्रे भाष्ये यश्च संख्यानिर्देशः स गणितशास्त्राविरुद्ध इति सिद्धसेनगणिटीकायां निरदेशि । ३ प्रकाशनपरिचयः । आर्हतमतप्रभाकरपरिचयद्वारा यथा प्रतिश्रुतं तथैवैतस्य सभाष्यतत्त्वाधिगमसूत्रग्रन्थस्य पूर्वमन्यत्र मुद्रितस्यापि विशेषसंस्करणघटितस्य प्रकाशनं यावच्छक्ति कृतम् । तथा चात्र सूत्रभाष्यविषयकमन्तरङ्गबहिरङ्गपरीक्षणं कृतम् । तथाऽधोभागेऽर्थदर्शिकाः पारिभाषिकशब्दानां यथायथं स्वरूपस्य बोधिकाष्टिप्पन्यः सविस्तरं मुद्रापिता येन जैनमतजिज्ञासूनां विशेषतः सौकर्य स्यात् । अत्र १ हरिभद्रसूरिव्याख्या ( भां. ई. लिखितपुस्तकम् ) २ सिद्धसेनगणिव्याख्या ( भां. इं. लिखितपुस्तकम् ) ३ यशोविजयजीटीका ४ तत्त्वार्थटिप्पणकम् ५ जैनतत्त्वप्रदीपः (न्यायविशारदेत्यादिविरुदभूषितमुनिश्रीमंगलविजयजीकृतः ) ६ पं. सुखलालजी अनूदिताश्चत्वारः कर्मग्रन्थाः ७ विविधोपोद्धातादयश्च सविस्तरमुपयोजिता अतस्तत्तेषां ग्रन्थकृतां महाभागानां पुस्तकप्रदायिनां पण्डितवरेण्यानां प्रतिछन्दकसामग्रीप्रदायिनां मुनिश्रीदर्शनविजयजी-श्रेष्ठिजीवनचन्द्रसाकरचन्द्र-कुंवरजी आनन्दजी इत्येतेषां महाशयानां चानुग्रहभरोद्वहनं स्वकर्तव्यं मन्ये । यदि न साहाय्यमेतेषां तर्हि नैतत्कार्यं निर्वोढुं पारयेयेति सुदृढं प्रत्योमि । अर्जुनचोरादीनां मरुदेवीकरकण्डुचरितं प्रतिमादीनां विशदवर्णनं च विस्तरभयादत्र न संगृहीतं तथापि तत्तत्स्थलीयटिप्पन्यां तद्विषया ग्रन्था निर्दिष्टास्तेभ्यो विज्ञेयं जिज्ञासुभिः । अत्र पञ्च परिशिष्टानि सन्ति । प्रथमं परिशिष्टं सूत्रदशाध्यायी। केवलसूत्रपाठेनोपवासफलं लभ्यते श्रद्धालुभिस्ततस्तदुपयोगाय दशाध्याय्याः प्रथमं निर्देशः। सूत्राणामकारादिक्रमसचिः द्वितीयं परिशिष्टम् । ३ तृतीयपरिशिष्टं सूत्रपाठे श्वेताम्बरदिगम्बरवैमत्यम् । ४ चतुर्थपरिशिष्टं उपयोजितग्रन्थानां सूचिः। ५ पञ्चमपरिशिष्टं पारिभाषिकशब्दानामकारादिक्रमेण सूचिः । एवं रीत्या संमुद्य विदुषां पुरतो निधीयते ।

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 282