Book Title: Sabhashya Tattvarthadhigam Sutrani
Author(s): Motilal Laghaji Oswal
Publisher: Motilal Laghaji Oswal

View full book text
Previous | Next

Page 6
________________ (४) ९ तत्त्वार्थवृत्तिः श्रीयोगदेवः। १० तत्त्वार्थटीका . श्रीलक्ष्मीदेवः। ११ तात्पर्यतत्त्वार्थटीका श्रीअभयनन्दिसूरिः (तृतीयः ) वि. सं. ७७५ एतदतिरिक्ता अन्या अपि बढ्यो व्याख्या देशभाषामया विद्यन्ते । अनुपयोगान्नास्माभिस्ताः संगृहीताः। तत्त्वार्थाधिगमसूत्रभाष्यम् । इदं भाष्यं स्वोपझं स्वयं सूत्रकृद्भिर्भगवदुमास्वातिवाचकमुख्यैरेव प्रणीतम् । अत्र श्वेताम्बराणां न विमतिः। यतः सर्वैस्तत्संप्रदायस्थैारव्याकृद्भिरनेन भाष्येण सहैव सूत्राणां व्याख्यानं कृतम् । किंच प्रथम संबन्ध. कारिकासु वक्ष्यामि (२२ का.) प्रवक्ष्यामि (का. ३१) इत्युक्तम् । तच्च सूत्रकारिकाकृतोरैक्य एव संभवति । तथैव वक्ष्यामः (५-३७) इत्युक्त्वा सूत्राणि प्रणीतानि । तेनापि सूत्रभाष्यकृतोरैक्यमेव ज्ञायते । यतो वक्ष्यामि (सं. का. २२) प्रवक्ष्यामि (३१ का.) वक्ष्यामः (५-३७) इत्यादिषु उत्तमपुरुषप्रयोगेषु अस्मत्पदबोध्य एव कर्ता ग्राह्यो भवति । तेन सूत्रभाष्यकृतोरैक्यमेवोररीकर्तव्यम् । दिगम्बरमतानुयायिव्याख्यातृभिः सूत्रभाष्यकृतोभदमालम्ब्य नेदं स्वोपज्ञमिति संधार्य भाष्यं न व्याख्यातम् । तत्र मूलं न पश्यामः। प्रत्युत यदि न स्याद्भाष्यं स्वोपज्ञं तहि भाष्यसमाप्तौ ये श्लोकाः भगवतामुमास्वातिवाचकानां नामग्रामादिकं बोधयन्ति । ते केवलं भाष्यकृतां नामादिबोधका भवेयुः। सूत्रकृतां नामग्रामादिकं कस्मात् ज्ञायेत । अन्तिमश्लोकाः सूत्रकाराणां कृतिरित्यपि वक्तुं न शक्यते । यतः कुत्रापि संप्रदाये शास्त्रीयसूत्रग्रन्थे वा सूत्रकाद्भः श्लोकानां नामग्रामादिबोधकानां प्रणयनं कृतं न दृश्यते । अतः सर्वसंमतपद्धतिमाहत्यैवमेव वक्तव्यं यच्छोका ग्रन्थान्तस्था भाष्यकारप्रणीता एव। सूत्रकृतो भगवदुमास्वातिवाचकमुख्या इत्यत्र सूत्रनिर्देशपुरःसरं श्रीहरिभद्रसूरिवादिदेवसूरिहेमचन्द्राचार्यादीनां संमतिदर्शिता । भाष्यकृतोऽपि वाचकमुख्या इत्यत्र स्याद्वादमञ्जरीप्रणेतृणां श्रीमल्लिषेणसूरीणां संमतिः । तथाहि-न भवति० २९ इयं संबन्धकारिका भाष्यगता ३ श्लोकव्याख्यायाम् । श्लो. २८ व्याख्यायां भाष्यं गृहीतम्। __ एवं च सिद्धं निर्विवादं यदेतद्भाष्यं संबन्धकारिकान्तिमश्लोकसहितं सूत्रकारप्रणीतम् । एते सूत्रभाष्यकृतः श्रीभगवदुमास्वातिवाचकमुख्याः। एतेषां जन्मस्थानं न्यग्रोधिकाग्रामः । एतेषां माता वत्सगोत्रजा उमा

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 282