Book Title: Sabhashya Tattvarthadhigam Sutrani Author(s): Motilal Laghaji Oswal Publisher: Motilal Laghaji Oswal View full book textPage 7
________________ (५) पिता च कौभीषणिगोत्रजः स्वातिसंज्ञकः । एतेषां शाखा नागरसंशिका। एते वाचकमुख्यस्य शिवधियः प्रशिष्याः। घोषनन्दिश्रमणस्य शिष्याः। वाचनया तु मुण्डपादस्य प्रशिष्याः । एतेषामवतारकालो दिगम्बरमतेन वैक्रमप्रथमशतकम् । तदेतत् ग्रन्थान्तश्लोकेभ्यो ज्ञायते । तथाहिवाचकमुख्यस्य शिवश्रियःप्रकाशयशसः प्रशिष्येण । शिष्येण घोषनन्दिक्षमणस्यैकादशाङ्गविदः॥१॥ वाचनया च महावाचकक्षमणमुण्डपादशिष्यस्य । शिष्येण वाचकाचार्यमूलनाम्नः प्रथितकीर्तेः ।। २॥ न्यग्रोधिकाप्रसूतेन विहरता पुरवरे कुसुमनाम्नि । कौभीषणिना स्वातितनयेन वात्सीसुतेनाय॑म् ॥ ३॥ अर्हद्वचनं सम्यग्गुरुक्रमेणागतं समुपधार्य ।। दुःखात्तं च दुरागमविहतमतिं लोकमवलोक्य ॥ ४॥ इदमुच्चै गरवाचकेन सत्त्वानुकम्पया दृब्धम् । तत्त्वार्थाधिगमाख्यं स्पष्टमुमास्वातिना शास्त्रम् ॥ ५॥ यस्तत्वाधिगमाख्यं ज्ञास्यति च करिष्यते च तत्रोक्तम् । सोऽव्याबाधसुखाख्यं प्राप्स्यत्यचिरेण परमार्थम् ।। ६ ।। एते पूर्व शिवभक्ता आसन् । पश्चाजिनदर्शनाजिनधर्मानुयायिनोऽभवनिति भक्तामरस्तोत्रवृत्तितो ज्ञायते । । एतेषां ग्रन्थाः-१ तत्त्वार्थाधिगमसूत्राणि । २ तत्त्वार्थाधिगमसूत्रभाष्यम् । ३ प्रशमरतिप्रकरणम् । ४ जम्बूद्वीपसमासप्रकरणम् । ५ पूजाप्रकरणम् । ६ श्रावकप्रज्ञप्तिः । ७ क्षेत्रविचारः । श्रीजिनप्रभसूरिकृततीर्थकल्पे प्रशमरतेः श्रीहरिभद्रटीकायां चैवं निर्देशो यत् श्रीउमास्वातिमहर्षिभिः प्रकरणपञ्चशती प्रणीतेति । तत एव श्वेता. म्बरसंप्रदाये एतेषां पञ्चशतप्रकरणप्रणेतृत्वेन प्रसिद्धिः। तथा चोक्तं वादिदेवसूरिभिः स्याद्वादरत्नाकरे प्रथमपरिच्छेदे तृतीयसूत्रे (पृ.४४ पं.१०) 'पञ्चशतीप्रकरणप्रणयनप्रवीणैरत्र भवद्भिरुमास्वातिवाचकमुख्यैः' इति । ___ अथ प्रकृततत्त्वार्थाधिगमसूत्रभाष्यविषय उच्यतेइदं भाष्यं सरलसरसपद्घाटतं 'सूत्रार्थो वर्ण्यते यत्र वाक्यैः सूत्रानुसारिभिः । स्वपदानि च वर्ण्यन्ते भाष्यं भाष्यविदो विदुः ॥१॥' इति लक्षणानुसारि सर्वव्याख्यातिशयोति प्रतिपदमनुभूतमस्माभिः । अत्र भाष्ये पूर्वेषां ग्रन्थकृतां न कुत्रापि निर्देशः । केवलं मतभेदप्रदर्शनPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 282