Book Title: Ratnakaravatarika
Author(s): Dalsukh Malvania
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 16
________________ १. मङ्गलम् ] मङ्गलाचरणम् । यावद् दीप्रदीपाकुरायते । दीप्रत्वं दीपस्य रात्रावेव, शलभप्लोषश्च प्रायेण तदैवेति रात्रिसत्कदीपाक्षेपः, तस्य च माङ्गलिक्याय जायमानत्वात् ॥ यैरत्रेत्यादि देवसूरयो बृहस्पतयः पूज्यत्वाद् बहुवचनम् । स्वप्रभया स्वकान्त्या । दिशा चाम्बरस्य च परा प्रकृष्टा भूतिः प्रकाशलक्षणाऽपिता । एतच्चापूर्वम् । तेषां हि एतावत् सामथ्ये न. विद्यते । स्वप्रभयेति प्रतिभया दिगम्बरस्येति कुमुदचन्द्रस्य पराभूतिरिति पराभवः । विवुधानामिति विदुषां देवानां च। नव्या इति स्तुत्याः, अथ च नूतनाः । पण्डितश्रीज्ञानचन्द्रकृतं टिप्पणम् । एकान्तमत्तमातङ्गसिंहमभ्युदयालयम् । प्रणिपत्य जिनं वीरं सर्वसम्पत्तिकारणम् ।।१।। गुरूपदेशतः सम्यक् ज्ञात्वा शास्त्रार्थनिर्णयम् । रत्नाकरावतारिका टिप्पणं रचयाम्यहम् ॥२॥ इहेष्टदेवतानमस्यानन्तरं सुधियो विधेयमारभेरन् । श्रीरत्नप्रभाचार्य ईहितार्थसिद्धये विघ्नविनायकोपशान्तये चादौ श्लोकत्रयं रचितवान् सिद्धये इत्यादि । वर्द्धयति गर्भावतीर्णो जनकसदने राष्ट्रादि. गज-तुरगादिसमृद्धि विस्तारयतीति वर्द्धमानः। सिद्धये ऐहिकसर्वार्थसम्पत्तये मोक्षाय च । अनेन वचनातिशयो भगवतः प्रकटीचक्रे । नहि सद्गुरूपदेशमन्तरेण सिद्धिः स्यात् । अनेनैव ज्ञानाति. शयो बलादाक्षिप्त एव । यतो ज्ञानमन्तरेण न सिद्धयुपदेशः सम्भवति । ज्ञानातिशयेन चापायापगमातिशयः प्रसभमभिहितः, तदविनाभावित्वात् । वर्द्धते चतुस्त्रिंशदतिशयैरशोकाद्यष्टमहाप्रातिहार्यः समृद्धियुक्तो भवतीति व्याख्यया पूजातिशयोऽप्याविश्वके । शास्त्रादौ हि भगवतश्चत्वारोऽतिशया वर्णनीयाः शास्त्रकारेणात्मनश्चतुरतिशयसिद्धयर्थम् । श्लोकोत्तरपादद्वितयेन जैनमतानुगानामपि जिनपतिपद. प्रसादतोऽपायापगमत्वं सूचयांचके। दीप्रदीपाङकुरायते इत्यनेनैतच्छास्त्राध्ययनकारिणामन्तेवासिनां मोहध्वान्तविनाशः सूचितः ॥१॥ - यैरत्रेत्यादि । यैः वप्रभया निरुपाधिप्रज्ञया दिगम्बरस्य क्षपणककुमुदचन्द्रस्य विदुषां समक्ष पराभूतिः पराभवो राजसमाजे महाराजाधिराजजयसिंहदेवसमक्षं जित इत्यर्थः । नव्या इति गुक् स्तुतौ । नवनं नवस्तवस्तमहन्तीति नव्याः । अथ च नव्या मनुष्यावतारत्वाद् नवीना बृहस्पतयः, बुद्धिवैभवेन तत्समानत्वात् । वाचस्पतिना हि स्वकान्त्या दिगम्बरस्य महेश्वरस्य परा प्रकृष्टा भूतिः ऋद्धिः समर्पिता, ईश्वरस्य देवरूपत्वाद् बृहस्पतेश्च देवगुरुत्वाद् । गुरुणा हि समृद्धिीयते भक्तजनस्य । अथ च बृहस्पतिना नास्तिकमतप्रसिद्धशास्त्रसूत्रधारेण देवानां प्रत्यक्षं भस्म समर्पितम् । नास्तिकेन हि न मन्यते शिवः । भस्मसमर्पणमतस्तस्योचितम् ।। स्याद्वादेत्यादि । अपनिद्रभक्त्येति निरतिशयभक्त्या । स्याद्वादमुद्रां स्याद्वादमार्गम् । अन्येषामपि क्षमाभूतां राज्ञां मुद्रा जनः स्तूयते । अथ च क्षमाभुता विन्ध्यादीनां पर्वतानामुच्छृङ्खलमुच्छ्वसितुमारब्धानां मुद्रा मर्यादा वर्ण्यते । मुद्रेतिपदं वावदूकवादव्यपाकरणेन साभिप्रायम् । यस्यामिति स्याद्वादमुद्रायाम् । सन्न्यायेति सत्तर्कपद्धतिमाश्रिताय सेति स्याद्वादमुद्रा। श्रीलक्ष्मीहेतुर्भवति, वादचत्वरे जयसिद्धिलाभात् । अथ च साऽनिर्वचनीया श्रीः परमपदप्राप्तिलक्षणा। . १ दीपत्वं दी मु। दोपदी ल । २ ०धवा नू ल । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 254