________________
१. मङ्गलम् ]
मङ्गलाचरणम् । यावद् दीप्रदीपाकुरायते । दीप्रत्वं दीपस्य रात्रावेव, शलभप्लोषश्च प्रायेण तदैवेति रात्रिसत्कदीपाक्षेपः, तस्य च माङ्गलिक्याय जायमानत्वात् ॥
यैरत्रेत्यादि देवसूरयो बृहस्पतयः पूज्यत्वाद् बहुवचनम् । स्वप्रभया स्वकान्त्या । दिशा चाम्बरस्य च परा प्रकृष्टा भूतिः प्रकाशलक्षणाऽपिता । एतच्चापूर्वम् । तेषां हि एतावत् सामथ्ये न. विद्यते । स्वप्रभयेति प्रतिभया दिगम्बरस्येति कुमुदचन्द्रस्य पराभूतिरिति पराभवः । विवुधानामिति विदुषां देवानां च। नव्या इति स्तुत्याः, अथ च नूतनाः ।
पण्डितश्रीज्ञानचन्द्रकृतं टिप्पणम् ।
एकान्तमत्तमातङ्गसिंहमभ्युदयालयम् । प्रणिपत्य जिनं वीरं सर्वसम्पत्तिकारणम् ।।१।। गुरूपदेशतः सम्यक् ज्ञात्वा शास्त्रार्थनिर्णयम् ।
रत्नाकरावतारिका टिप्पणं रचयाम्यहम् ॥२॥ इहेष्टदेवतानमस्यानन्तरं सुधियो विधेयमारभेरन् । श्रीरत्नप्रभाचार्य ईहितार्थसिद्धये विघ्नविनायकोपशान्तये चादौ श्लोकत्रयं रचितवान् सिद्धये इत्यादि । वर्द्धयति गर्भावतीर्णो जनकसदने राष्ट्रादि. गज-तुरगादिसमृद्धि विस्तारयतीति वर्द्धमानः। सिद्धये ऐहिकसर्वार्थसम्पत्तये मोक्षाय च । अनेन वचनातिशयो भगवतः प्रकटीचक्रे । नहि सद्गुरूपदेशमन्तरेण सिद्धिः स्यात् । अनेनैव ज्ञानाति. शयो बलादाक्षिप्त एव । यतो ज्ञानमन्तरेण न सिद्धयुपदेशः सम्भवति । ज्ञानातिशयेन चापायापगमातिशयः प्रसभमभिहितः, तदविनाभावित्वात् । वर्द्धते चतुस्त्रिंशदतिशयैरशोकाद्यष्टमहाप्रातिहार्यः समृद्धियुक्तो भवतीति व्याख्यया पूजातिशयोऽप्याविश्वके । शास्त्रादौ हि भगवतश्चत्वारोऽतिशया वर्णनीयाः शास्त्रकारेणात्मनश्चतुरतिशयसिद्धयर्थम् । श्लोकोत्तरपादद्वितयेन जैनमतानुगानामपि जिनपतिपद. प्रसादतोऽपायापगमत्वं सूचयांचके। दीप्रदीपाङकुरायते इत्यनेनैतच्छास्त्राध्ययनकारिणामन्तेवासिनां मोहध्वान्तविनाशः सूचितः ॥१॥ -
यैरत्रेत्यादि । यैः वप्रभया निरुपाधिप्रज्ञया दिगम्बरस्य क्षपणककुमुदचन्द्रस्य विदुषां समक्ष पराभूतिः पराभवो राजसमाजे महाराजाधिराजजयसिंहदेवसमक्षं जित इत्यर्थः । नव्या इति गुक् स्तुतौ । नवनं नवस्तवस्तमहन्तीति नव्याः । अथ च नव्या मनुष्यावतारत्वाद् नवीना बृहस्पतयः, बुद्धिवैभवेन तत्समानत्वात् । वाचस्पतिना हि स्वकान्त्या दिगम्बरस्य महेश्वरस्य परा प्रकृष्टा भूतिः ऋद्धिः समर्पिता, ईश्वरस्य देवरूपत्वाद् बृहस्पतेश्च देवगुरुत्वाद् । गुरुणा हि समृद्धिीयते भक्तजनस्य । अथ च बृहस्पतिना नास्तिकमतप्रसिद्धशास्त्रसूत्रधारेण देवानां प्रत्यक्षं भस्म समर्पितम् । नास्तिकेन हि न मन्यते शिवः । भस्मसमर्पणमतस्तस्योचितम् ।।
स्याद्वादेत्यादि । अपनिद्रभक्त्येति निरतिशयभक्त्या । स्याद्वादमुद्रां स्याद्वादमार्गम् । अन्येषामपि क्षमाभूतां राज्ञां मुद्रा जनः स्तूयते । अथ च क्षमाभुता विन्ध्यादीनां पर्वतानामुच्छृङ्खलमुच्छ्वसितुमारब्धानां मुद्रा मर्यादा वर्ण्यते । मुद्रेतिपदं वावदूकवादव्यपाकरणेन साभिप्रायम् । यस्यामिति स्याद्वादमुद्रायाम् । सन्न्यायेति सत्तर्कपद्धतिमाश्रिताय सेति स्याद्वादमुद्रा। श्रीलक्ष्मीहेतुर्भवति, वादचत्वरे जयसिद्धिलाभात् । अथ च साऽनिर्वचनीया श्रीः परमपदप्राप्तिलक्षणा।
. १ दीपत्वं दी मु। दोपदी ल । २ ०धवा नू ल ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org