________________
मङ्गलाचरणम्।
[१. माल
હું ૧ વિધરૂપ પતંગિયાઓને બાળવામાં જેમના લાલનખની મંડળી તેજસ્વી દીપશિખા જેવું કાર્ય કરે છે, તે શ્રી વર્ધમાનસ્વામી સિદ્ધિને માટે થાઓ. ૧
જેમણે વિદ્વાનેની સમક્ષ સ્વપ્રભાથી દિગમ્બરાચાર્યને પરાભૂતિ આપી તે નવ્ય દેવસૂરિ જયવંતા હે. ૨
ક્ષમાશીલ જિનેશ્વરોની સ્યાદ્વાદમુદ્રાની. અપ્રમત્તભાવે હું ભક્તિપૂર્વક સ્તુતિ કરું છું. સ્માદ્વાદમુદ્રાની આણમાં રહેનાર સન્યાયમાર્ગને અનુસરનાર પુરુષને તે મુદ્રા ભારૂપ છે અને અન્યને માટે દંડપ છે. ૩
श्रीराजशेखरसूरिकता पञ्जिका । उद्दन्तांशुर्देशनायां पातु वः प्रथमो जिनः। परब्रह्मप्रकाशानां वर्णिकामिव दर्शयन् ॥१॥ जयन्तु गौतमाद्यास्ते येऽपवर्ग गता अपि । शास्त्ररूपेण देहेनोपकुर्वन्ति 'जगन्त्यपि ॥२॥ नन्दन्ति गुरवोऽस्माकं वात्सल्यामृतसिन्धवः । मलधारिगणाधीशाः श्रीश्रोतिलकसूरयः ॥३॥ स्याद्वादरत्नाकर इत्यस्ति तर्को महत्तमः । वादिवृन्दारकश्रीमद्देवसूरिविनिर्मितः ॥४॥ श्रीदेवसूरिशिष्येन्द्रैः श्रीरत्नप्रभसूरिभिः । तत्र टीका लघुश्चक्रे रत्नाकरावतारिकः ॥५॥ प्रन्थस्यैतस्य भागौ द्वौ सुगमावन्तरान्तरा । भागास्त्रयस्तु विषमाः प्रायशो मन्दमेधसाम् ॥६॥ अतोऽहं विकृति तत्र कर्तुमिच्छामि किञ्चन । तमोतु मयि सान्निध्य श्रीमती भाषितेश्वरी ॥७॥ व्याख्येयपदमित्यन्तं तव्याख्यानं तु तत्पुरः । एष एव क्रमः शास्त्रे सर्वत्रास्मिन् भविष्यति ॥८॥ आघ्राय पुस्तकं येऽत्र सर्वज्ञाः स्युर्जयन्ति ते ।
किञ्चिज्ज्ञजनबोधेन सफलोऽयं मम श्रमः ॥९॥ प्रन्धारम्मे शिष्टसमयपरिपालनाय अन्धकृदेव-गुरु-सिद्धान्तानां कमान्ममस्कारान्नाह
सिद्धये वर्द्धमानः स्तात् ताम्रा यन्नखमण्डली ।
प्रत्यूहशलभप्लोषे दीपदीपाङ्कुरायते ॥ सिद्धये इति मोक्षाय प्रारिप्सितकार्यसमाप्तिलक्षणायै वा । प्रत्यूहा विघ्नाः, प्रतिकूला ऊहाश्च । दीप्रदीपाङ्कुरायते इति वर्तमाननिर्देशः साभिप्रायः । तदातनी भगवतो नखमण्डली इदानी
१ जगत्यपि ल । २ नद० ल । ३ मम सा० ल । ४ वर्तमानानि ल ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org