Book Title: Rajprashniya Sutra
Author(s): N V Vaidya
Publisher: Khadayata Book Depot

View full book text
Previous | Next

Page 216
________________ २१३ वलिं पिणद्धेइ २ ता एवं अंगयाइं केयूराइं कडगाई तुडियाई कडिसुत्तगं दसमुदाणंतगं विकच्छमुत्तगं मुरविं पालंबं कुंडलाई २ चूडामणि मउडं पिणद्धेइ २ गंथिमवेढिमपूरिमसंघाइमेणं चउ. बिहेणं मल्लेणं कप्परुक्खगं पिव अप्पाणं अलंकियविभूसियं करेइ २ ददरमलयसुगंधगंधिएहिं गायाई भुखंडेइ दिव्वं च सुमणदाम पिणद्धइ ।। (मू० ४२)॥ 'तेणं कालेणं तेणं समएण' मित्यादि, तस्मिन् काले तस्मिन् समये सूर्याभो देवः सूर्याभे विमाने उपपातसभायां देवशयनीये देवदूष्यान्तरे प्रथमतोऽङ्गलासंख्येयभागमात्रया अवगाहनया समुत्पन्नः 'तए ण' मित्यादि सुगम, नवरं इह भाषामनःपर्याप्त्योः समाप्तिकालान्तरस्य प्रायः शेषपर्याप्तिसमाप्तिकालान्तरापेक्षया स्तोकत्वादेकत्वेन विवक्षणमिति 'पंचविहाए पजत्तीए पजत्तीभावं गच्छह ' इत्युक्तं । 'तए ण' मित्यादि, ततस्तस्य सूर्याभस्य देवस्य पञ्चविधया पर्याप्त्या पर्याप्तभावमुपगतस्य सतोऽयमेतद्रूपः संकल्पः समुद. पद्यत-'अब्भत्थिए' इत्यादि पदव्याख्यानं पूर्ववत्, किं 'मे' मम पूर्व करणीयं किं मे पश्चात्करणीय ? किं मे पूर्व कर्तुं श्रेयः ? किं मे पश्चात् कर्तुं श्रेयः ?, तथा कि मे पूर्वमपि च पश्चादपि च हिताय भावप्रधानोऽयं निर्देशो हितत्वाय-परिणामसुन्दरतायै सुखाय-शर्मणे क्षमाय-अयमपि भावप्रधानो निर्देशः संगतत्वाय निःश्रेयसाय निश्चितकल्याणाय अनुगामिकतायै-परम्परशुभानुबन्धसुखाय भविष्यतीति, इह प्राक्तनो ग्रन्थः प्रायोऽपूर्वो भूयानपि च पुस्तकेषु वाचनाभेदस्ततो माभूत् शिष्याणां सम्मोह इति कापि सुगमोऽपि यथावस्थितवाचनाक्रमप्रदर्शनार्थ लिखितः, इत ऊर्ध्वं तु प्रायः सुगमः प्राग्व्याख्यातस्वरूपश्च न च वाचनामेदोऽप्यतिवादर Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286