Book Title: Rajprashniya Sutra
Author(s): N V Vaidya
Publisher: Khadayata Book Depot

View full book text
Previous | Next

Page 230
________________ २२७ लोकस्य नाथा-योगक्षेमकृतो लोकनाथास्तेभ्यः, तत्र योगो बीजाधानोद्भेदपोषणकरणं क्षेमं च तत्तदुपद्रवाद्यभावापादनं, तथा लोकस्य-प्राणिलोकस्य पश्चास्तिकायात्मकस्य वा हिताहितोपदेशेन सम्यक् प्ररूपणया वा लोकहितास्तेभ्यः, तथा लोफस्य-देशनायोग्यस्य प्रदीपा देशनांशुभिर्यथावस्थितवस्तुप्रकाशका लोकप्रदीपास्तेभ्यः, तथा लोकस्य-उत्कृष्टमतेर्भव्यसत्त्वलोकस्य प्रद्योतनं प्रद्योतकत्वविशिष्टा ज्ञानशक्तिस्तत्करणशीला लोकप्रद्योतकराः, तथा च भवन्ति भगवत्प्रसादात्तत्क्षणमेव भगवन्तो गणभृतो विशिष्टज्ञानसंपत्समन्विता यद्वशाद् द्वादशाङ्गमारचयन्तीति, तेभ्यः, तथा अभयं-विशिष्टमात्मनः स्वास्थ्य, निःश्रेयसधर्मभूमिकानिबन्धनभूता परमा धृतिरिति भावः, ततः अभयं ददतीत्यभयदास्तेभ्यः, सूत्रे च कः प्रत्ययः स्वार्थिकः प्राकृतलक्षणवशात्, एवमन्यत्रापि, तथा चक्षुरिव चक्षुः-विशिष्ट आत्मधर्मः तत्त्वावबोधनिबन्धनः श्रद्धास्वभावा, श्वद्धाविहीनस्याचक्षुष्मत इव रूपं तत्त्वदर्शनायोगात्, तद् ददतीति चक्षुर्दास्तेभ्यः, तथा मार्गो-विशिष्टगुणस्थानावाप्तिप्रगुणः स्वरसवाही क्षयोपशमविशेषस्तं ददतीति मार्गदाः, तथा शरणं-संसारकान्तारगतानासतिप्रवलरागादिपीडितानां समाश्वासनस्थानकल्पं तत्त्वचिन्तारूपमध्यवसानं तद्ददतीति शरणदास्तेभ्यः, तथा बोधिः-जिनप्रणीतधर्मप्राप्तिस्तत्त्वार्थश्रद्धानलक्षणसम्यग्दर्शनरूपा तां ददतीति बोधिदास्तेभ्यः, तथा धर्मचारित्ररूपं ददतीति धर्मदास्तेभ्यः, कथं धर्मदा इत्याहधर्म दिशन्तीति धर्मदेशकास्तेभ्यः, तथा धर्मस्य नायकाःस्वामिनस्तद्वशीकरणभावात् तत्फलपरिभोगाच धर्मनायकाः तेभ्यः, धर्मस्य सारथय इव सम्यक् प्रवर्तनयोगेन धर्मसारथयस्तेभ्यः, तथा धर्म एव वरं-प्रधानं चतुरन्तहेतुत्वात् चतुरन्तं चक्रमिव चतुरन्तचक्रं तेन वर्तितुं शीलं येषां ते तथा तेभ्यः, Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286