Book Title: Rajprashniya Sutra
Author(s): N V Vaidya
Publisher: Khadayata Book Depot

View full book text
Previous | Next

Page 233
________________ २३० गन्धोदकेन स्नानं सरसेन गोशीर्षचन्दनेन गात्रानुलेपनं देवदूष्ययुगलपरिधानं पुष्पाद्यारोहणं पुरतः पुष्पपुोपचार धूपदानं पुरतो दिव्यतन्दुलैरष्टमङ्गलकालेखनमष्टोत्तरशतवृत्तैः स्तुतिं प्रणिपातदण्डकपाटं च कृत्वा वन्दते नमस्यति, तत एवमेव क्रमेण उत्तरपूर्वदक्षिणप्रतिमानामप्यर्च निकां कृत्वा दक्षिणद्वारेण विनिर्गत्य दक्षिणस्यां दिशि यत्र चैत्यवृक्षः तत्र समागत्य चैत्यवृक्षस्य द्वारवदनिकां करोति, ततो महेन्द्रध्वजस्य ततो यत्र दाक्षिणात्या नन्दा पुष्करिणी तत्र समागच्छति समागत्य तोरणत्रिसोपानप्रतिरूपकगतशालभञ्जिकाव्यालकरूपाणां लोमहस्तकेन प्रमार्जनं जलधारयाभ्युक्षणं चन्दनचर्चा पुष्पाद्यारोहणं धूपदानं च छत्वा सिद्धायतनमनुप्रदक्षिणीकृत्योत्तरस्यां नन्दापुष्करिण्यां समागत्य पूर्ववत्तस्या अर्चनिकां करोति, तत उत्तराहे महेन्द्रध्वजे तदनन्तरमुत्तराहे चैत्यवृक्षे तत उत्तराहे चैत्यस्तूपे ततः पश्चिमोत्तरपूर्वदक्षिणजिनप्रतिमानां पूर्ववत् पूजा विधायोत्तराहे प्रेक्षागृहमण्डपे समागच्छति, तत्र दाक्षिणात्यप्रेक्षागृहमण्डपवत् सर्वा वक्तव्यता वक्तव्या, ततो दक्षिणस्तम्भपङ्क्तया विनिर्गत्योत्तराहे मुखमण्डपे समागच्छति,तत्रापि दाक्षिणात्यमुखमंडपवत् सर्व पश्चिमोत्तरपूर्वद्वारक्रमेण कृत्वा दक्षिणस्तम्भपङ्क्तया विनिर्गत्य सिद्धायतनस्योत्तरद्वारे समागत्य पूर्ववदर्च निकां कृत्वा पूर्वद्वारेण समागच्छति, तत्रार्च निकां पूर्ववत् कृत्वा पूर्वस्य मुखमण्डपस्य दक्षिणद्वारे पश्चिमस्तम्भपङ्क्तयोत्तरपूर्वद्वारेषु क्रमेणोक्तरूपां पूजां विधाय पूर्वबारेण विनिर्गत्य पूर्वप्रेक्षागृहमण्डपे समागत्य पूर्ववत् द्वारमध्यभागदक्षिणद्वारपश्चिमस्तम्भपङ्क्तयोत्तरपूर्वद्वारेषु पूर्ववदर्च निकां करोति, ततः पूर्वप्रकारेणैव क्रमेण चैत्यस्तूपजिनप्रतिमाचैत्यवृक्षमहेन्द्रध्वजनंदापुष्करिणीनां, ततः सभायां सुधर्मायां पूर्व द्वारेण प्रविशति, प्रविश्य यत्रैव मणिपीठिका तत्रागच्छति, Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286