Book Title: Rajprashniya Sutra
Author(s): N V Vaidya
Publisher: Khadayata Book Depot

View full book text
Previous | Next

Page 238
________________ काण्डकलापयोगात्, केपि 'नीलपाणिणो' इति नोल: काण्डकलाप इति गम्यते पाणी येषां ते नीलपाणयः, एवं पीतपाणयो रक्तपाणयः चापं पाणी येषां ते चापपाणयः चारु:प्रहरणविशेषः पाणौ येषां ते चारुपाणयः चर्म अंगुष्ठांगुल्यो. राच्छादनरूपं येषां ते चर्मपाणयः, एवं दण्डपाणयः खड्गपाणयः पाशपाणयः, एतदेव व्याचष्टे-यथायोगं नीलपीतरक्तचापचारुचर्मदंडखड्गपाशधरा आत्मरक्षाः रक्षामुपगच्छंति तदेकचित्ततया तत्परायणा वर्तन्ते इति रक्षोपगाः गुप्ता न स्वामिमेदकारिणः, तथा गुप्ता-पराप्रवेश्या पालिः-सेतुर्येषां ते गुप्तपालिकाः, तथा युक्ताः-सेवकगुणोपेततया उचितास्तथा युक्ताः-परस्परसंबद्धा नतु बृहदन्तरा पालियेषां ते युक्तपालिकाः, समयतःआचारतः आचारेणेत्यर्थः विनयतश्च किंकरभूता इव तिष्ठति, न खल ते किंकराः, किन्तु तेऽपि मान्याः, तेषामपि पृथगासन. निपातनात् , केवलं ते तदानीं निजाचारपरिपालनतो विनीतत्वेन च तथाभूता इव तिष्ठन्ति, तत उक्तं किंकरभूता इवेति, 'तेहिं चउहिं सामाणियसाहस्सीहि, इत्यादि सुगमं, यावत् 'दिव्वाइं भोगभोगाई भुंजमाणे विहरइ' इति ॥ (सू०४५) Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286