________________
काण्डकलापयोगात्, केपि 'नीलपाणिणो' इति नोल: काण्डकलाप इति गम्यते पाणी येषां ते नीलपाणयः, एवं पीतपाणयो रक्तपाणयः चापं पाणी येषां ते चापपाणयः चारु:प्रहरणविशेषः पाणौ येषां ते चारुपाणयः चर्म अंगुष्ठांगुल्यो. राच्छादनरूपं येषां ते चर्मपाणयः, एवं दण्डपाणयः खड्गपाणयः पाशपाणयः, एतदेव व्याचष्टे-यथायोगं नीलपीतरक्तचापचारुचर्मदंडखड्गपाशधरा आत्मरक्षाः रक्षामुपगच्छंति तदेकचित्ततया तत्परायणा वर्तन्ते इति रक्षोपगाः गुप्ता न स्वामिमेदकारिणः, तथा गुप्ता-पराप्रवेश्या पालिः-सेतुर्येषां ते गुप्तपालिकाः, तथा युक्ताः-सेवकगुणोपेततया उचितास्तथा युक्ताः-परस्परसंबद्धा नतु बृहदन्तरा पालियेषां ते युक्तपालिकाः, समयतःआचारतः आचारेणेत्यर्थः विनयतश्च किंकरभूता इव तिष्ठति, न खल ते किंकराः, किन्तु तेऽपि मान्याः, तेषामपि पृथगासन. निपातनात् , केवलं ते तदानीं निजाचारपरिपालनतो विनीतत्वेन च तथाभूता इव तिष्ठन्ति, तत उक्तं किंकरभूता इवेति, 'तेहिं चउहिं सामाणियसाहस्सीहि, इत्यादि सुगमं, यावत् 'दिव्वाइं भोगभोगाई भुंजमाणे विहरइ' इति ॥ (सू०४५)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com