SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ २२७ लोकस्य नाथा-योगक्षेमकृतो लोकनाथास्तेभ्यः, तत्र योगो बीजाधानोद्भेदपोषणकरणं क्षेमं च तत्तदुपद्रवाद्यभावापादनं, तथा लोकस्य-प्राणिलोकस्य पश्चास्तिकायात्मकस्य वा हिताहितोपदेशेन सम्यक् प्ररूपणया वा लोकहितास्तेभ्यः, तथा लोफस्य-देशनायोग्यस्य प्रदीपा देशनांशुभिर्यथावस्थितवस्तुप्रकाशका लोकप्रदीपास्तेभ्यः, तथा लोकस्य-उत्कृष्टमतेर्भव्यसत्त्वलोकस्य प्रद्योतनं प्रद्योतकत्वविशिष्टा ज्ञानशक्तिस्तत्करणशीला लोकप्रद्योतकराः, तथा च भवन्ति भगवत्प्रसादात्तत्क्षणमेव भगवन्तो गणभृतो विशिष्टज्ञानसंपत्समन्विता यद्वशाद् द्वादशाङ्गमारचयन्तीति, तेभ्यः, तथा अभयं-विशिष्टमात्मनः स्वास्थ्य, निःश्रेयसधर्मभूमिकानिबन्धनभूता परमा धृतिरिति भावः, ततः अभयं ददतीत्यभयदास्तेभ्यः, सूत्रे च कः प्रत्ययः स्वार्थिकः प्राकृतलक्षणवशात्, एवमन्यत्रापि, तथा चक्षुरिव चक्षुः-विशिष्ट आत्मधर्मः तत्त्वावबोधनिबन्धनः श्रद्धास्वभावा, श्वद्धाविहीनस्याचक्षुष्मत इव रूपं तत्त्वदर्शनायोगात्, तद् ददतीति चक्षुर्दास्तेभ्यः, तथा मार्गो-विशिष्टगुणस्थानावाप्तिप्रगुणः स्वरसवाही क्षयोपशमविशेषस्तं ददतीति मार्गदाः, तथा शरणं-संसारकान्तारगतानासतिप्रवलरागादिपीडितानां समाश्वासनस्थानकल्पं तत्त्वचिन्तारूपमध्यवसानं तद्ददतीति शरणदास्तेभ्यः, तथा बोधिः-जिनप्रणीतधर्मप्राप्तिस्तत्त्वार्थश्रद्धानलक्षणसम्यग्दर्शनरूपा तां ददतीति बोधिदास्तेभ्यः, तथा धर्मचारित्ररूपं ददतीति धर्मदास्तेभ्यः, कथं धर्मदा इत्याहधर्म दिशन्तीति धर्मदेशकास्तेभ्यः, तथा धर्मस्य नायकाःस्वामिनस्तद्वशीकरणभावात् तत्फलपरिभोगाच धर्मनायकाः तेभ्यः, धर्मस्य सारथय इव सम्यक् प्रवर्तनयोगेन धर्मसारथयस्तेभ्यः, तथा धर्म एव वरं-प्रधानं चतुरन्तहेतुत्वात् चतुरन्तं चक्रमिव चतुरन्तचक्रं तेन वर्तितुं शीलं येषां ते तथा तेभ्यः, Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035223
Book TitleRajprashniya Sutra
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherKhadayata Book Depot
Publication Year
Total Pages286
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy