SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ २२८ तथा अप्रतिहते - अप्रतिस्खलिते क्षायिकत्वात् वरे- प्रधाने शानदर्शने धरन्तीति अप्रतिहतवरज्ञानदर्शनघरास्तेभ्यः, तथा छादयन्तीति छद्म-घातिकर्मचतुष्टयं व्यावृत्तम् - अपगतं छद्म येभ्यस्ते व्यावृत्तच्छद्मानस्तेभ्यः, तथा रागद्वेषकषायेन्द्रियपरी- षहोपसर्गघातिकर्मशत्रून् स्वयं जितवन्तोऽन्यांश्च जापयन्तीति जिनाः जापकास्तेभ्यो जिनेभ्यो जापकेभ्यः, तथा भवार्णत्रं स्वयं तीर्णवन्तोऽन्यांश्च तारयन्तीति तीर्णास्तारकास्तेभ्यः, तथा केवल वेदसा अवगततत्त्वा बुद्धा अन्याश्च बोधयन्तीति बोधका - स्तेभ्यः, मुक्ताः कृतकृत्या निष्ठितार्था इति भावस्तेभ्योऽन्याँश्च मोचयन्तीति मोचकास्तेभ्यः, सर्वज्ञेभ्यः सर्वदशिभ्यः, शिवं सर्वोपद्रवरहितत्वात् अचलं स्वाभाविकप्रायोगिकचलनक्रियापोहात् अरुजं शरीरमनसोरभावेनाधिव्याभ्यसम्भवात् अनन्तं केवलात्मनानन्तत्वात् अक्षयं विनाशकारणाभावात् अव्याबाधं केनापि बाधयितुमशक्यममूर्तत्वात् न पुनरावृत्तियस्मात् तदपुनरावृत्ति सिध्यन्ति निष्ठितार्था भवन्त्यस्यामिति सिद्धिः - लोकान्तक्षेत्र लक्षणा सैव गम्यमानत्वात् गतिः सिद्धिगतिरेव नामधेयं यस्य तत् सिद्धिगतिनामधेयं तिष्ठत्यस्मिन् इति स्थानं व्यवहारतः सिद्धिक्षेत्रं निश्चयतो यथावस्थितं स्वस्वरूपं स्थानस्थानिनोर भेदोपचारात् तत् सिद्धिगतिनामघेयं स्थानं तत् संप्राप्तेभ्यः, एवं प्रणिपातदण्डकं पठित्वा ततो ' वंदइ नमसइ ' इति ब्रन्दते ताः प्रतिमाश्चैत्यवन्दनविधिना प्रसिद्धेन, नमस्करोति पश्चात् प्रणिधानादियोगेनेत्येके, अन्ये त्वभिदधति-विरतिमतामेव प्रसिद्धश्चैत्यवन्दनविधिरन्येषां तथाऽभ्युपगमपुरस्सरकायव्युत्सर्गासिद्धेरिति वन्दते सामान्येन नमस्करोति आशयवृद्धेर भ्युत्थाननमस्कारेणेति, भगवन्तः परमर्षयः केवलिनो विदन्ति, अत ऊर्ध्वं सूत्रं सुगमं केवलं भूयान् विधिविषयो वाचनामेद इति यथावस्थितवाचना तत्त्वमत्र ". Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035223
Book TitleRajprashniya Sutra
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherKhadayata Book Depot
Publication Year
Total Pages286
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy