________________
प्रदर्शनार्थ विधिमात्रमुपदर्यते-तदनन्तरं लोमहस्तकेन देव. च्छन्दकं प्रमार्जयति पानीयधारया अभ्युक्षति, अभिमुखं सिञ्चतीत्यर्थः, तदनन्तरं गोशीर्षचन्दनेन पञ्चाङ्गुलितलं ददाति, ततः पुष्पारोहणादि धूपदहनं च करोति, तदनन्तरं सिद्धायतनबहु. मध्यदेशभागे उदकधाराभ्युक्षणचन्दनपश्चाङ्गुलितलप्रदानपुष्पपुञ्जोपचारधूपदानादि करोति, ततः सिद्धायतनदक्षिणद्वारे 'समागत्य लोमहस्तकं गृहीत्वा तेन द्वारशाखे शालिभञ्जिकाव्यालरूपाणि च प्रमार्जयति, तत उदकधारयाभ्युक्षणं गोशीर्ष'चन्दनचर्चापुष्पाद्यारोहणं धूपदानं करोति । ततो दक्षिणद्वारेण निर्गत्य दाक्षिणात्यस्य मुखमण्डपस्य बहुमध्यदेशभागे लोम
हस्तकेन प्रमार्योदकधाराभ्युक्षणं चन्दनपञ्चांगुलितलप्रदान..पुष्पपुञ्जोपचारधूपदानादि करोति, कृत्वा पश्चिमद्वारे समागत्य पूर्ववत् द्वारार्च निकां करोति कृत्वा च तस्यैव दाक्षिणात्यस्य मुखमण्डपस्योत्तरस्यांस्तम्भपङ्क्तौ समागत्य पूर्ववत् तदर्च निकां विधत्ते, इह यस्यां दिशि सिद्धायतनादिद्वारं तत्रेतरस्य मुखमण्डपस्य स्तम्भपङ्किः, ततस्तस्यैव दाक्षिणात्यस्य मुखमण्ड. पस्य पूर्वद्वारे समागत्य तत्पूजां करोति, कृत्वा तस्य दाक्षिणात्यस्य मुखमण्डपस्य दक्षिणद्वारे समागत्य पूर्ववत् पूजां विधाय तेन द्वारेण विनिर्गत्य प्रेक्षागृहमण्डपस्य बहुमध्यदेशभागे समागत्याक्षपाटकं मणिपीठिका सिंहासनं च लोमहस्तकेन प्रमार्योदकंधारयाभ्युक्ष्य चन्दनचर्चापुष्पपूजाधूपदानानि कृत्वा तस्यैव प्रेक्षामण्डपस्य क्रमेण पश्चिमोत्तरपूर्वदक्षिणद्वाराणामर्चनिकां कृत्वा दक्षिणद्वारेण विनिर्गत्य चैत्यस्तूपं मणिपीठिका च लोमहस्तकेन प्रमार्योदकधारयाभ्युक्ष्य सरसेन गोशीर्षचन्दनकेन पञ्चांगुलितलं दत्त्वा पुष्पाचारोहणं च विधाय धूपं ददाति, ततो यत्र पाश्चात्या मणिपीठिका तत्रागच्छति, ता
गत्यालोके प्रणामं कराति, कृत्वा लोमहस्तकेन प्रमार्जनं सुरभि Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com