SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ २२६ धूपकडुच्छुयं प्रगृह्य प्रयत्नतो धूपं दत्त्वा जिनवरेभ्यः, सूत्रे षष्ठी प्राकृतत्वात्, सप्ताष्टानि पदानि पश्चादपसृत्य दशाङ्गुलिमञ्जलि मस्तके रचयित्वा प्रयत्नतो 'अट्टसयविसुद्धगंथजुत्तेहिं 'ति विशुद्धो-निर्मलो लक्षणदोषरहित इति भावः यो ग्रन्थः-शब्दसंदर्भस्तेन युक्तानि, अष्टशतं च तानि विशुद्धग्रन्थयुक्तानि च तैः अर्थयुक्तैः-अर्थसारैरपुनरुतैर्महावृत्तः, तथाविधदेवलब्धिप्रभाव एषः, संस्तौति संस्तुत्य वामं जानुं अञ्चति इत्यादिना विधिना प्रणामं कुर्वन् प्रणिपातदण्डकं पठति, तद्यथा-'नमोऽत्थु णमरिहंताण' मित्यादि, नमोऽस्तु 'ण' मिति वाक्यालङ्कारे देवादिभ्योऽतिशयपूजामहन्तीत्यर्हन्तस्तेभ्यः, सूत्रे षष्ठी 'छट्ठी. विभत्तीए भण्णइ चउत्थी' इति प्राकृतलक्षणवशात् , ते चार्हन्तो नामादिरूपा अपि सन्ति ततो भावार्हत्प्रतिपत्त्यर्थमाह-'भगवद्भयः' भगः-समग्रेश्वर्यादिलक्षणः स एषामस्तीति भगवन्तस्तेभ्यः, आदिः-धर्मस्य प्रथमा प्रवृत्तिस्तत्करणशीला: आदिकरास्तेभ्यः, तीर्यते संसारसमुद्रोऽनेनेति तीर्थ-प्रवचनं तत्करणशीलास्तीर्थकराः तेभ्यः, स्वयम्-अपरोपदेशेन सम्यग वरबोधिप्राप्त्या बुद्धा-मिथ्यात्वनिद्रापगमसंबोधेन स्वयंसंबुद्धा. स्तेभ्यः, तथा पुरुषाणामुत्तमाः पुरुषोत्तमाः, भगवन्तो हि संसारमप्यावसन्तः सदा परार्थव्यसनिन उपसर्जनीकृतस्वार्था उचितक्रियावन्तोऽदीनभावाः कृतज्ञतापतयोऽनुपहतचित्ता देवगुरुबहुमानिन इति भवन्ति पुरुषोत्तमास्तेभ्यः, तथा पुरुषाः सिंहा इव कर्मगजान् प्रति पुरुषसिंहास्तेभ्यः, तथा पुरुषवरपुण्डरीकाणीव संसारजलासङ्गादिना कर्ममलाभावतो वा पुरुषेषु वरपुण्डरीकाणि तेभ्यः, तथा पुरुषवरगन्धहस्तिन इव परचकदुर्भिक्षमारिप्रभृतिक्षुद्रगजनिराकरणेनेति पुरुषवरगन्धहस्तिनस्तेभ्यः, तथा लोको-भव्यसत्त्वलोकः तस्य सकलकल्याणैकनिबन्धनतया भव्यत्वभावेनोत्तमा लोकोत्तमास्तेभ्यः, तथा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035223
Book TitleRajprashniya Sutra
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherKhadayata Book Depot
Publication Year
Total Pages286
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy