________________
२१३ वलिं पिणद्धेइ २ ता एवं अंगयाइं केयूराइं कडगाई तुडियाई कडिसुत्तगं दसमुदाणंतगं विकच्छमुत्तगं मुरविं पालंबं कुंडलाई २ चूडामणि मउडं पिणद्धेइ २ गंथिमवेढिमपूरिमसंघाइमेणं चउ. बिहेणं मल्लेणं कप्परुक्खगं पिव अप्पाणं अलंकियविभूसियं करेइ २ ददरमलयसुगंधगंधिएहिं गायाई भुखंडेइ दिव्वं च सुमणदाम पिणद्धइ ।। (मू० ४२)॥
'तेणं कालेणं तेणं समएण' मित्यादि, तस्मिन् काले तस्मिन् समये सूर्याभो देवः सूर्याभे विमाने उपपातसभायां देवशयनीये देवदूष्यान्तरे प्रथमतोऽङ्गलासंख्येयभागमात्रया अवगाहनया समुत्पन्नः 'तए ण' मित्यादि सुगम, नवरं इह भाषामनःपर्याप्त्योः समाप्तिकालान्तरस्य प्रायः शेषपर्याप्तिसमाप्तिकालान्तरापेक्षया स्तोकत्वादेकत्वेन विवक्षणमिति 'पंचविहाए पजत्तीए पजत्तीभावं गच्छह ' इत्युक्तं । 'तए ण' मित्यादि, ततस्तस्य सूर्याभस्य देवस्य पञ्चविधया पर्याप्त्या पर्याप्तभावमुपगतस्य सतोऽयमेतद्रूपः संकल्पः समुद. पद्यत-'अब्भत्थिए' इत्यादि पदव्याख्यानं पूर्ववत्, किं 'मे' मम पूर्व करणीयं किं मे पश्चात्करणीय ? किं मे पूर्व कर्तुं श्रेयः ? किं मे पश्चात् कर्तुं श्रेयः ?, तथा कि मे पूर्वमपि च पश्चादपि च हिताय भावप्रधानोऽयं निर्देशो हितत्वाय-परिणामसुन्दरतायै सुखाय-शर्मणे क्षमाय-अयमपि भावप्रधानो निर्देशः संगतत्वाय निःश्रेयसाय निश्चितकल्याणाय अनुगामिकतायै-परम्परशुभानुबन्धसुखाय भविष्यतीति, इह प्राक्तनो ग्रन्थः प्रायोऽपूर्वो भूयानपि च पुस्तकेषु वाचनाभेदस्ततो माभूत् शिष्याणां सम्मोह इति कापि सुगमोऽपि यथावस्थितवाचनाक्रमप्रदर्शनार्थ लिखितः, इत ऊर्ध्वं तु प्रायः
सुगमः प्राग्व्याख्यातस्वरूपश्च न च वाचनामेदोऽप्यतिवादर Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com