________________
२१४
"
इति स्वयं परिभावनीयो, विषमपदव्याख्या तु विधास्यते इति । ' तर णं तस्स सूरियाभस्स देवस्स सामाणियपरिसोववन्नगा देवा इममेयारूव ' मित्यादि ' आयंते ' इति नवानामपि श्रोतसां शुद्धोदकप्रक्षालनेन आचान्तो- गृहीताचमनश्चोक्षः स्वल्पस्यापि शङ्कितमलस्यापनयनात् अत एव परमशुचिभूतो, 'महत्थं महग्घं महरिहं विउलं इंदाभिसेय' मिति, महान् अर्थोमणिकनकरत्नादिक उपयुज्यमानो यस्मिन् स महार्थः तं तथा महान् अर्घः - पूजा यत्र स महार्घः तं महम्-उत्सवमर्हतीति महार्हस्तं विपुलं विस्तीर्ण शक्राभिषेकवत् इन्द्राभिषेकमुपस्थापयत ' अट्ठसहस्सं सोवणियाण कलसाणं विउव्वंती ' त्यादि, अत्र भूयान् वाचनाभेद इति यथावस्थितवाचनाप्रदर्शनाय लिख्यते, अष्टसहस्रं - अष्टाधिकं सहस्रं सौवर्णिकानां कलशानां १ अष्टसहस्रं रूप्यमयानां २ अष्टसहस्रं मणिमयानां ३ अष्टसहस्रं सुवर्णमणिमयानां ४ अष्टसहस्रं सुवर्णरूप्यमयानां ५ अष्टसहस्रं रूप्यमणिमयानां ६ अष्टसहस्रं सुवर्णमणिमयानां ७ अष्टसहस्रं भौमेयानां कलशानां ८ अष्टसहस्रं भृङ्गाराणामेवमादर्शस्थालपात्रीसुप्रतिष्टितवात करक चित्ररत्नकरण्डकपुष्पचङ्गेरी यावल्लो महस्तकपटलकसिंहासनच्छत्रचामरसमुद्गकध्वजधूपकच्छुकानां प्रत्येकं २ अष्टसहस्रं २ विकुर्वति विकुर्वित्वा ( तार उक्किट्ठाए ' इत्यादि व्याख्यातार्थे, ' सव्वतुवरा' इत्यादि, सर्वान् तूवरान् कषायान् सर्वाणि पुष्पाणि सर्वान् गन्धान्गन्धवासादीन् सर्वाणि माल्यानि ग्रन्थितादिभेदभिन्नानि सर्वोषधोन सिद्धार्थकान् - सर्षपकान् गृह्णन्ति, इहैवं क्रमः -पूर्वे क्षीरसमुद्रे उपागच्छन्ति तत्रोदकमुत्पलादीनि च गृह्णन्ति, ततः goकरोदे समुद्रे तत्रापि तथैव ततो मनुष्यक्षेत्रे भरतैरावतवर्षेषु मागधादिषु तीर्थेषु तीर्थोदकं तीर्थमृत्तिकां च गृहन्ति, ततो गङ्गासिन्धुरक्तारक्तवतीषु नदीषु सलिलोदकं - नद्युदकमु
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com