SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ भयतटमृत्तिकां च गृह्णन्ति, ततः क्षुल्लहिमवशिखरिषु सर्वतूवरसर्वपुष्पसर्वमाल्यसौषधिसिद्धार्थकान्, ततस्तत्रैव पद्महदपौण्डरीकहदेषु हृदोदकमुत्पलादीनि च तद्गतानि, ततो हेमवतैरण्यवतवर्षेषु रोहितारोहितांशसुवर्णकूलारूप्यकूलासु महानदीषु सलिलोदकमुभयतटमृत्तिका, तदनन्तरं शब्दापातिविकटापातिवृत्तवैताढयेषु सर्वतूवरादीन् , ततो महाहिमवद्रुप्पिवर्षधरपर्वतेषु सर्वतूवगदीन, ततो महापद्मपुण्डराकदेषु ह्रदोदकादीनि, तदनन्तरं हरिवर्षरम्यकवर्षेषु हरिसलिलाहरिकान्तानरकान्तानारीकान्तासु महानदीषु सलिलोदकमुभयतटमृत्तिका च, ततो गन्धापातिमाल्यवत्पर्यायवृत्तवैताढयेषु तूवरादीन, ततो निषधनीलवद्वर्षधरपर्वतेषु सर्वतूवरादीन् , तदनन्तरं तद्गतेषु तिगिच्छिकेसरिमहादेषु हुदोदकादीनि, ततः पूर्व विदेहापर विदेहेषु सीतासीतोदानदीषु सलिलोदकमुभयतटमृत्तिकां च, ततः सर्वेषु चक्रवर्तिविजेतव्येषु मागधादिषु तीर्थेषु तीर्थोदकं तीर्थमृत्तिकां च, तदनन्तरं वक्षस्कारपर्वतेषु सर्वतूवरादीन् , ततः सर्वासु अन्तरनदीषु सलिलोदकमुभयतटमृत्तिकां च, तदनन्तरं मन्दरपर्वते भद्रशालवने तूवरादोन , ततो नन्दनवने तूवरादीन् सरसं च गोशोर्षचन्दनं, तदनन्तरं सौमनसवने सर्वतूवरादोन् सरसं च गोशीर्षचन्दनं दिव्यं च सुमनोदाम गृहन्ति, ततः पण्डकवने तूवरपुष्पगन्धमाल्यसरसगोशोंर्षचन्द नदिव्यसुमनोदामानि, 'दहरमलए सुगंधिए य गंधे गिण्हंति' इति दर्दर:-चीवरावनद्धं कुण्डिकादिभाजनमुखं तेन गालितं तत्र पक्कं वा यत् मलयोद्भवतया प्रसिद्धत्वात् मलयज-श्रीखण्डं येषु तान् सुगन्धिकान्-परमगन्धोपेतान् गन्धान् गृहंति, 'आसियसंमजिओवलितं सुइसम्मट्टरत्थंतरावणवीहियं करेइ' इति आमिक्तम्-उदकच्छटकेन सन्मार्जितं-संभाव्यमानकचवरशोधनेन उपलिप्तमिव गोमयादिना उपलिप्तं तथा सिक्तानि Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035223
Book TitleRajprashniya Sutra
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherKhadayata Book Depot
Publication Year
Total Pages286
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy