Book Title: Rajprashniya Sutra
Author(s): N V Vaidya
Publisher: Khadayata Book Depot
View full book text
________________
२१६
अन्येककात, अप्पेगा
रूपं मङ्गल
जलेनात एव शुचीनि-पवित्राणि संमृष्टानि-कचवरापनयनेन रथ्यान्तराणि आपणवीथय इव-हट्टमार्गा इवापणवीथयो-रथ्याविशेषा यस्मिन् तत्तथा कुर्वन्ति, ' अप्पेगइया देवा हिरण्णविहिं भाएंति' अप्येकका:-केचन देवा हिरण्यविधि-हिरण्यरूपं मङ्गलभूतं प्रकारं भाजयन्ति-विश्राणयन्ति, शेषदेवेभ्यो ददतीति भावः, एवं सुवर्णरत्नपुष्पफलमाल्यगन्धचूर्णाभरणविधिभाजनमपि भावनीयम् । 'उप्पायनिवाए 'त्यादि, उत्पातपूर्वो निपातो यस्मिन् स उत्पातनिपातस्तं, एवं निपातोत्पातं संकुचितप्रसारितं 'रियारिय' मिति गमनागमनं भ्रान्तसंभ्रान्तनामं आरभटभसोलं दिव्यं नाटयविधिमुपदर्शयंति, अप्येकका देवा 'बुक्कारेंति' बुक्काशब्दं कुर्वन्ति, 'पीणंति' पीनयन्ति-पीनमात्मानं कुर्वन्ति स्थूला भवंतीत्यर्थः, 'लासंति' लासयन्ति लास्यरूपं नृत्यं कुर्वन्ति, 'तंडवंति' त्ति ताण्डवयन्ति-ताण्डवरूपं नृत्यं कुर्वन्ति, 'बुक्कारेंति' बुक्कारं कुर्वन्ति 'अप्फोडंति' आस्फोटयन्ति, भूम्यादिकमिति गम्यते, 'उच्छलंति' त्ति उच्छलयन्ति 'पोच्छलंति 'प्रोच्छलयन्ति 'उवयंति' त्ति अवपतन्ति 'उप्पयंति' त्ति उत्पतन्ति 'परिवयंति' त्ति परिपतन्ति तिर्यक् निपतन्तीत्यर्यः 'जलंति' त्ति ज्वालामाला कुला भवन्ति 'तावंति' ति तप्ता भवन्ति प्रतप्ता भवन्ति 'थुक्कारेंति' त्ति महता शब्देन थूकुर्वन्ति 'देवोक्कलियं करेंति' त्ति देवानां वातस्येवोत्कलिका देवोत्कलिका तां कुर्वन्ति, 'देवकहकहं करेंति' त्ति प्राकृतानां देवानां प्रमोदभरवशतः स्वेच्छावचनर्बोलकोलाहलो देवकहकहकस्तं कुर्वन्ति 'दुहदुहकं करेंति' दुहदुहकमित्यनुकरणमेतत् । 'तप्पढमयाए पम्हलाए सुकुमालाए सुरभीए गंधकासाइयाए गायाई लूहन्ति' इति तत्प्रथमतया-तस्यामलङ्कारसभायां प्रथमतया पक्ष्मला च सा सुकुमारा च पक्ष्मलसुकुमारा तया सुरभ्या गन्धकाषायिक्या Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Page Navigation
1 ... 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286