Book Title: Prabandh Chintamani
Author(s): Merutungacharya, Durgashankar K Shastri
Publisher: Farbas Gujarati Sabha
View full book text
________________
प्रबन्धचिन्तामणिः ।
इत्यादिभिः स्तुतिभिर्जेनाचार्यैः स्तूयते स्म ॥
७० अथान्यदा पञ्चग्रामसङ्ग्रामाधिरूढयोः श्रीवीरधवललवणप्रसादयोः श्रीवीरधवलपत्नी राज्ञी जयतलदेवी सन्धिविधानहेतवे जनकं प्रति श्रीशोभनदेवमुपागता । किं वैधव्याद्भीरुः सन्धिबन्धं कारयसीति तेनामिहिता । वीरचूडामणेः पत्युः श्रीवीरधवलस्योन्नतिमारोपयन्ती सा पितृकुलविनाशशङ्कया भूयो भूयोऽहमेवं व्याहरामि । तुरगपृष्टाधिरूढे तस्मिन्वीरधवले स कोऽस्ति सुभटो यस्तत्सम्मुखे स्थास्यतीति व्याहृत्य साव प्रतस्थे । अथ तस्मिन्समरसंरम्भे प्रहारव्यथाव्याकुले श्रीवीरधवले भुवस्तलमलंकुर्वति ।
(५१) यः पञ्चग्रामसङ्ग्रामभूमौ भीमपराक्रमः । घातैः पपात संजातैरश्वतो न तु गर्वतः ॥
इति किञ्चिदन्तर्भ समरसुभटवर्गे एक एवायं पतिः पतित इति सकलं निजबलमुत्साहयन् श्रीलवणप्रसादः समस्तानपि रिपून लीलयैव समूलकाषं कषितवान् । इत्थमेकविंशतिकृत्वः सत्त्वगुणरोचिष्णू रणरसिकतया क्षेत्रे पितुर पतितः ॥
१७०
७१ अथ वीरधवलस्यायुः पर्यन्ते, प्रति तीर्थं प्रेस्थितेन दत्तमेकधा सहस्रगुणमुपलभ्यत इति रूढे: श्रीतेजः पालेन जन्मसुकृतं ददे । तदनु तस्मिन् स्वामिनि विपन्ने तत्सौभाग्यातिशयात्सेवकानां विंशत्यधिकशतेन सहगमनं चक्रे । तदनु श्रीतेजः पालेन प्रेतवने यामिकान्मुक्त्वा लोकस्य स निर्बन्ध निषिद्धः ।
[ चतुर्थः
५२) आयान्ति यान्ति च परे ऋतवः क्रमेण संजातमेतदृतुयुग्ममगत्वरं तु । वीरेण वीरधवलेन विना जैनानां
वर्षा विलोचनयुगे हृदये निदाघः ॥
१ प्रतिहार श्री के २ प्रस्थितस्य a KCD ३ जनस्य C ४ अशीत्यधिक M
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258