Book Title: Prabandh Chintamani
Author(s): Merutungacharya, Durgashankar K Shastri
Publisher: Farbas Gujarati Sabha
View full book text
________________
प्रकाशः] प्रकीर्णकप्रबन्धाः।
२०३ २५ अथ कदाचिद्भवान्या भव इति पृष्टः, यत्त्वं कियतां कार्पटिकानां राज्यं ददासीति तद्वाक्यादनु यो लक्षसंख्यानामपि एक एव वासनापरस्तस्य वै राज्यमहं वितरामीति प्रत्ययदर्शनाय गौरी पतमन्नां जरद्गवीं विधाय स्वयं नररूपेण तटस्थः पान्थांस्तामुद्धर्तुमाकारयन् तैरासन्नसोमेश्वरदर्शनोत्कैरुपहस्यमानः केनापि कृपावता पथिकवृन्देन तस्यामुद्धर्तु। मारब्धायां सिंहरूपेण शिव एव तान् त्रासयन् कश्चिदेक एव पथिको मृत्युमप्यादृत्य तस्या गोः समीपं नौज्झीत् स एव राज्याह इति पृथक् गौर्या दर्शित इति वासनाप्रबन्धः ।
२६ अथ कश्चित्कार्पटिकः सोमेश्वरयात्रायां व्रजन् पथि लोहकारीकसि प्रसुप्तः । तस्य लोहकारस्य भार्या पतिं निहत्य कृपाणिकां कार्पटिकशीर्षे निदधती बुम्बारवमकरोत् । आरक्षकेण तत्रागत्य तस्यापरा. धिनः करौ छिन्नौ स देवस्योपालम्भनपरः निशि प्रत्यक्षीभूयेत्युक्तः । शृणु त्वं प्राग्भवे कदाचिदजा केनापि एकेन सोदरेण पाणिभ्यां श्रवणयोधृता तदपरेण मारिता, ततः सा अजा मृत्वा इयं योषिदजनि येन व्यापादिता स साम्प्रतं पतिरभूत् यत्त्वया तदा कर्णौ विधृतौ तदा तव समागमे जाते सति करौ छिन्नौ तदा कथं ममोपालम्भ इति कृपाणिकाप्रबन्धः ।
२७ पुरा शङ्खपुरनगरे श्रीशको नाम नृपतिस्तत्र नामकर्मभ्यां धनदः श्रेष्ठी स कदाचित्करिकर्णतालतरलां कमलां विमृश्योपायनपाणिपोपान्त मुपेत्य तं परितोष्य च तत्प्रसादीकृतायां भुवि चतुर्भिनन्दनैः सह समालोच्य सुलग्ने जैमप्रासादमचीकरत् । तत्र प्रतिष्ठितबिम्वानां स्थापनां विधाय
___x एष वासनाप्रबन्धः पुस्तकान्तरे नोपलभ्यते इति डा. भाउ दाजीशर्मभिलिखितम् १ त्वया प्राग्भवे P
___* अयं कृपाणिकाप्रबन्धः पुस्तकान्तरे नोपलभ्यते २ कथाकोषेऽपीयं कथा वर्तते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258