SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ प्रकाशः] प्रकीर्णकप्रबन्धाः। २०३ २५ अथ कदाचिद्भवान्या भव इति पृष्टः, यत्त्वं कियतां कार्पटिकानां राज्यं ददासीति तद्वाक्यादनु यो लक्षसंख्यानामपि एक एव वासनापरस्तस्य वै राज्यमहं वितरामीति प्रत्ययदर्शनाय गौरी पतमन्नां जरद्गवीं विधाय स्वयं नररूपेण तटस्थः पान्थांस्तामुद्धर्तुमाकारयन् तैरासन्नसोमेश्वरदर्शनोत्कैरुपहस्यमानः केनापि कृपावता पथिकवृन्देन तस्यामुद्धर्तु। मारब्धायां सिंहरूपेण शिव एव तान् त्रासयन् कश्चिदेक एव पथिको मृत्युमप्यादृत्य तस्या गोः समीपं नौज्झीत् स एव राज्याह इति पृथक् गौर्या दर्शित इति वासनाप्रबन्धः । २६ अथ कश्चित्कार्पटिकः सोमेश्वरयात्रायां व्रजन् पथि लोहकारीकसि प्रसुप्तः । तस्य लोहकारस्य भार्या पतिं निहत्य कृपाणिकां कार्पटिकशीर्षे निदधती बुम्बारवमकरोत् । आरक्षकेण तत्रागत्य तस्यापरा. धिनः करौ छिन्नौ स देवस्योपालम्भनपरः निशि प्रत्यक्षीभूयेत्युक्तः । शृणु त्वं प्राग्भवे कदाचिदजा केनापि एकेन सोदरेण पाणिभ्यां श्रवणयोधृता तदपरेण मारिता, ततः सा अजा मृत्वा इयं योषिदजनि येन व्यापादिता स साम्प्रतं पतिरभूत् यत्त्वया तदा कर्णौ विधृतौ तदा तव समागमे जाते सति करौ छिन्नौ तदा कथं ममोपालम्भ इति कृपाणिकाप्रबन्धः । २७ पुरा शङ्खपुरनगरे श्रीशको नाम नृपतिस्तत्र नामकर्मभ्यां धनदः श्रेष्ठी स कदाचित्करिकर्णतालतरलां कमलां विमृश्योपायनपाणिपोपान्त मुपेत्य तं परितोष्य च तत्प्रसादीकृतायां भुवि चतुर्भिनन्दनैः सह समालोच्य सुलग्ने जैमप्रासादमचीकरत् । तत्र प्रतिष्ठितबिम्वानां स्थापनां विधाय ___x एष वासनाप्रबन्धः पुस्तकान्तरे नोपलभ्यते इति डा. भाउ दाजीशर्मभिलिखितम् १ त्वया प्राग्भवे P ___* अयं कृपाणिकाप्रबन्धः पुस्तकान्तरे नोपलभ्यते २ कथाकोषेऽपीयं कथा वर्तते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003006
Book TitlePrabandh Chintamani
Original Sutra AuthorMerutungacharya
AuthorDurgashankar K Shastri
PublisherFarbas Gujarati Sabha
Publication Year1932
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy