SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ प्रबन्धचिन्तामणिः । [ पञ्चमः तस्य प्रासादस्य समारचनाय बहून्यायद्वाराणि रचयन् तत्सपर्याकुलतया नानाविधकुसुमवृक्षावली समलंकृतमभिराममारामं च निर्माप्य तचिन्तकेषु नियुक्तेषु उदिते प्राक्तनान्तरायकर्मणि क्रमात् संन्हियमाणसंपदधमर्णतया तत्र मानम्लानिमाकलय्यानतिदूरवर्तिनि कापि ग्रामे कृतवसतिर्नगरयातायातेन सुतोपात्तजीविकः कियन्तमपि कालमतिवाहितवान् । अथान्यस्मिन्नवसरे सन्निहिते चातुर्मासिकपर्वणि तत्र यायिभिः सुतैः समं स धनदः शङ्खपुरं प्राप्य निजप्रासादसोपानमधिरोहन् निजारामपुष्पलाविकयोपायनीकृतपुष्पचतुः सरिकः परमानन्दनिर्भरस्ताभिर्जिनेन्द्रमभ्यर्च्य निशि गुरूणां पुरः स्वं दौस्थ्यममन्दं निन्दन् तैः प्रदत्तकपर्दियक्षाकृष्टिमन्त्रोऽन्यदा कृष्णचतुर्दशीनिशीथे तमेव मन्त्रमाराधयन् प्रत्यक्षीकृतात् कपर्दियक्षात् गुरूपदेशतश्चतुर्मासकावसरे पुष्पचतुः सरिकपूजापुण्यफलं देहीति प्रार्थयन् एकस्यापि पूजा कुसुमस्य पुण्यफलं सर्वज्ञेन विना नाहं वितरीतुं प्रभूष्णुरिति किंतु कपर्दियक्षस्तस्य साधर्मि - कस्यातुल्यवात्सल्यसम्बन्धे तद्धानि चतुर्षु कोणेषु सुवर्णपूर्णान् चतुरः कलशान् निधीकृत्य तिरोदधे । स प्रातः स्वसद्मनि समागतः धर्मदर्शनपराणां नन्दनानां तद्रव्यं समर्थयामास । तेऽपि निर्वन्धात् पितुः पार्श्वे तंद्वैभवलाभतं पृच्छन्तस्तेषां हृदि धर्मप्रभावाविर्भावाय जिनपूजाप्रभावतः परितुष्टेन कपर्दियक्षेण प्रसादीकृतां तां संपदं निवेदयामास । तेऽपि संपन्नसंपत्तयस्तदेव जन्मनगरं समाश्रित्य निजधर्मस्थानसमारचनपराः जिनशासनप्रभावनां विविधां कुर्वन्तो वैधर्मिकाणामपि मनस्तु जिनधर्म निश्चलीचकुरिति श्रीवीतरागपूजायां धनदप्रबन्धः+ | इत्याचार्य श्रीमेरुतुङ्गाविः कृते प्रबन्धचिन्तामणौ विक्रमादित्याद्युदितपात्रविवेचनप्रमुख जिनपूजायां धनदप्रबन्धपर्यन्तवर्णनो नाम प्रकीर्णकाभिधानः पञ्चमः प्रकाशः समर्थितः ॥ ग्रन्थाग्रं ३०००. २०४ १ तद्वाग्भिश्चतुः ) २ धर्मनिन्दापराणां H + अयं धनदप्रबन्धः पुस्तकान्तरे नोपलभ्यते इति डा. भाउदाजी शर्मभिर्लिखितम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003006
Book TitlePrabandh Chintamani
Original Sutra AuthorMerutungacharya
AuthorDurgashankar K Shastri
PublisherFarbas Gujarati Sabha
Publication Year1932
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy