SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ प्रकाशः] प्रकीर्णकप्रबन्धाः। २०६ ३१) दुःप्रापेषु बहुश्रुतेषु गुणवद्वृद्धेषु च प्रायशः शिष्याणां प्रतिभाभियोगविगमादुच्चैःश्रुते सीदति । प्राज्ञानामथ भाविनामुपकृतिं कर्तुं परामिच्छता ग्रन्थः सत्पुरुषप्रबन्धघटनाचके सुधासत्रवत् ॥ १॥ ३२) प्रबन्धानां चिन्तामणिरयमुपात्तः करतले स्यमन्तस्य भ्रान्ति रचयति चिरायोपनिहितः । हृदि न्यस्तः शस्तां सृजति विमलां कौस्तुभकलां तदेतस्माद्ग्रन्थाद्भवति विबुधः श्रीपतिरिव ॥ २ ॥ ३३) यथा श्रुतं संकलितः प्रबन्धै मन्थो मया मन्दधियापि यत्नात् । मात्सर्यमुत्सार्य सुधीभिरेव प्रज्ञोद्धरैरुन्नतिमेव नेयः-- ॥ ३ ॥ यावद्दिवि कितवाविव रविशशिनौ क्रीडतो ग्रहकपर्दैः। ग्रन्थस्तावन्नन्दतु सूरिभिरुपदिश्यमानोऽयम् ॥ ४ ॥ नृपश्रीविक्रमकालातीतसंवत् १३६१ वर्षे फाल्गुनसुदि १५ रवावद्येह श्रीवर्धमानपुरे चिन्तामणिग्रन्थः समाप्तः ॥ १ त्रयोदशस्वब्दशतेषु चैकषष्टयाधिकेषु क्रमतो गतेषु । वैशाखमासस्य च पूर्णिमायां ग्रन्थः समाप्ति गमितो मितोऽयम् ॥a Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003006
Book TitlePrabandh Chintamani
Original Sutra AuthorMerutungacharya
AuthorDurgashankar K Shastri
PublisherFarbas Gujarati Sabha
Publication Year1932
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy