SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ प्रबन्धचिन्तामणिः | [ पञ्चमः तेनं चमत्कृतचित्तौ वैद्यौ प्रत्यक्षीभूय यथाभिमतं वरं वितीर्य स्वस्थानं भेजतुः । इति वैद्यवाग्भटप्रबन्धः । २४ अथ धामणउलिग्रामवास्तव्यो धाराभिधानः कोपि नैगमः श्रिया वैश्रमणस्पर्धिष्णुः संधाधिपत्यमासाद्य माद्यद्रविणव्ययव्यतिकरजीवितजीवलोकः पञ्चभिरङ्गजैः समं श्रीरैवताचलोपत्यकायां विहितावासः दिग म्बरभक्तेन केनापि गिरिनगरराजेन सिताम्बरभक्त इति स स्वल्यमान - स्तद्द्द्वयोः सैन्ययोः समरसंरम्भे प्रवर्तमाने सति, अमानेन रणरसेर्ने युध्यमाना देवभक्त्या वल्लभतया प्रोत्साहितसाहसा विपद्य ते पञ्चपुत्राः पञ्चापिक्षेत्रपतयो बभूवुः । तेषां क्रमेण नामानि । १ कालमेघः २ मेघनादः ३ भैरवः ४ एकपदः ५ त्रैलोक्यपादः इति बभूवुः । तीर्थप्रत्यनीकं पञ्चतां नयन्तस्ते पञ्चापि गिरेः परितो विजयन्ते स्म । अथ तत्पिता धाराभिधान एक एवावशिष्टः कन्यकुब्जदेशे गत्वा श्रीबंष्पभट्टिसूरीणां व्याख्याक्षणप्रक्रमे श्रीसंघस्याज्ञां दत्तवान् यदैवतकतीर्थे दिगम्बराः कृतवसतयः सिताम्बरान् पाखण्डिरूपान् परिकल्प्य पर्वताधिरूढान्नेच्छेति अतु स्तान निर्जित्य तीर्थोद्धारं कृत्वा निजदर्शनप्रतिष्ठापरैर्व्यारव्याक्षणो विधेय इति तद्वचनेन्धनप्रोज्ज्वलितप्रतीपज्वलनौं नृपतिं सहादाय तेन समं तां भूधरधरामवाप्य सप्तभिर्दिनैवदिस्थलेन दिगम्बरान् पराजित्य श्रीसंघसमक्षं श्रीअम्बिकां प्रत्यक्षीकृत्य एकोवि नमुकारो उज्जन्त सेल सिहरे इत्यादितदुक्तां गाथामाकर्ण्य सिताम्बर दर्शने स्थापिते सति पराभूता दिश्वसना. बलानकमण्डपात् झम्पापातं वितेनुरिति क्षेत्राधिपत्युत्पत्तिप्रबन्धः ॥ २०२ * अय वैद्यवाग्भटप्रबंध: १ तेन निजाभिप्रायसदृशप्रत्युत्तरदानेन a 11 पुस्तकान्तरे नोपलभ्यते २ धारणउलिग्रामे वास्तव्यो a ३ मासाद्यतद् द्रविण a ४ मरणरसेन a ५ बप्पहट्टि M P ६ पर्वतेऽधिरोद्धुं न ददति H ७ प्रतिधज्वलना: C + अयं क्षेत्राधिपत्युत्पत्तिप्रबन्धः पुस्तकान्तरे नोपलभ्यते इति डा. भाउदाजीशर्मभिर्लिखितम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003006
Book TitlePrabandh Chintamani
Original Sutra AuthorMerutungacharya
AuthorDurgashankar K Shastri
PublisherFarbas Gujarati Sabha
Publication Year1932
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy