Book Title: Prabandh Chintamani
Author(s): Merutungacharya, Durgashankar K Shastri
Publisher: Farbas Gujarati Sabha
View full book text
________________
प्रकाशः]
प्रकीर्णकप्रबन्धाः। स्थितं प्राप्य विपणिरमणी तद्वृत्तान्तं ज्ञापिता सती ताभिरेव समानीय प्रेखोलपल्यङ्के मुक्तः । अहोरात्रत्रयान्ते किञ्चित्त्यक्तनिद्रश्चित्रशालादिचित्रं चित्रकारि पश्यन् स्वर्लोकसमुत्पन्नमात्मानं मन्यमानस्तया पणहरिणीदृशा ज्ञापितवृत्तान्तः स्नानपानभोजनादिभिर्भक्तिभिः परितोषितो नृपसभायां समुपेतः पाणिनिव्याकरणं यथावस्थितं व्याचक्षाणो नृपप्रभृतिपण्डितैरशेषैः सक्रियमाणस्तदुपातं सर्वस्वं तस्यै समर्पयामास ।
अथ तस्य क्रमेण चतुर्णा वर्णानां स्त्रियश्चतस्रः प्रिया अभवन् । तथा क्षत्रियाङ्गजः श्रीविक्रमार्कः, शूद्रीसुतो भर्तृहरिः स हीनजातित्वात् भूमिगृहस्थो गुप्तवृत्त्याध्याप्यते । अपरे त्रयः प्रत्यक्षाः पाठ्यन्ते एवं भर्तृहरिसंकेतेन तेषामध्याप्यमानानां२४) दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य ।
इति पाठ्यमाने भर्तृहरिरज्जुसंकेतेऽसंजायमाने प्रत्यक्षच्छात्रैस्त्रिभिरुतरार्धे पृच्छ्यमाने कुपित उपाध्याय (स्तेन)रे वेश्यासुत अद्यापि रज्जुसंकेतं न कुरुषे इत्याक्रुष्टः प्रत्यक्षीभूय शास्त्रकोर निन्दन् । २५) आयासशतलब्धस्य प्राणेभ्योऽपि गरीयसः ।।
गतिरेकैव वित्तस्य दानमन्या विपत्तयः ॥ इति पाठाद्वित्तस्यैकामेव गतिं मेने । तेन भर्तृहरिणा वैराग्यशतकादिप्रबन्धा भूयांसश्चक्रिरे । इति भर्तृहयुत्पत्तिप्रबन्धः ।
२३ अथ श्रीधारायां मालवमण्डनस्य श्रीभोजराजस्यायुर्वेदवेदी कश्चित् वाग्भटनामायुर्वेदोदितानि कुपथ्यानि विधाय तत्प्रभावात् रोगान् प्रादुः
१ प्रेक्ष्य D २ तं वृत्तान्तं ज्ञापिता a c ३ भर्तृहरः नृहरः ३ ४ यो न ददाति न भुंक्ते तस्य तृतीयागतिर्भवति ॥ इत्युत्तरार्थोपेतः श्लोकोऽयं भतृहरिशतके दृश्यते ५ भर्तृहरी रज्जु P ६ कुपितः उपाध्यायं P ७ आक्रषन् P ८ भर्तृहरिरज्जुसंकेतं न कुरुषे इत्यादिष्टः स प्रत्यक्षीभूय धरासुकारं a * अयं भर्तृहयुत्पत्तिप्रबन्धः पुस्तकान्तरे नोपलभ्यते इति डा. भाउदाजीना लिखितम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258