Book Title: Prabandh Chintamani
Author(s): Merutungacharya, Durgashankar K Shastri
Publisher: Farbas Gujarati Sabha
View full book text
________________
प्रबन्धचिन्तामणिः |
[ पञ्चमः
कृत्यं पुनस्तनिग्रहाय सुश्रुतविश्रुतैर्भेषजैः पथ्यैश्च तान्निगृह्य नीरमन्तरेण कियत्कालं जीव्यत इति परीक्षार्थं तत्परिहृत्य दिनत्रयान्ते पिपासापीडितताल्वोष्ठपुट इत्यपाठीत -
२.०.०
२६) कचिदुष्णं कचिच्छीतं कचित्कथितशीतलम् । क्वचिद्भेषजसंयुक्तं वारि क्वापि न वारितम् ॥
इति वारिसत्कारकारि वाक्यमिदमपाठीत् । तेन निजानुभूतो वाग्भटनामा प्रबन्धश्चक्रे । तस्य जामातापि लघुबाहड: श्वसुरेण बृहद्वाहडेन सह राजमन्दिरे प्रयातः प्रत्यूषकाले श्रीभोजस्य शरीरचेष्टितं' विलोक्य बृहद्बाहडेनाद्य नीरुजो यूयमित्युक्ते लघोर्मुखभङ्गं विलोक्य श्रीभोजेन कारणं पृष्ठः स स्वामिनः शरीरेऽद्य निशाशेषे कृष्णच्छाया प्रवेशसूचितो राजयक्ष्मणः प्रवेशोऽभूदिति देवतादेशेनातीन्द्रियं भावं विज्ञपयन्, तत्कलाकलापचमत्कृतेन राज्ञा तस्य व्याधेः प्रतीकारतयानुयुक्तः लक्षत्रयमूल्यं रसायनं निवेदयन्, षड्भिर्मासैस्तावता द्रव्यव्ययेन परमादरेण च तस्मिन् रसायने सिद्धे, प्रदोषसमये तद्रसायनं काचमये कुम्पके न्यस्य नरेन्द्रपल्यङ्के निघाय प्रत्यूषे देवतार्चनानन्तरं तद्रसायनमत्तुमिच्छुः रसायनपूजावर्धापनादनु सज्जीकृतायां समग्रसामग्र्यां स लघुरगदंकारी केनापि कारणेन तं का कुम्पकं भूमावास्फाल्य बभञ्ज । आः किमेतदिति राज्ञो रसायनपरिमलादेव पलायिते व्याधौ व्याधेरभावाद्धातुक्षयकारिणानेन वृथा स्थापितेनालं, यदद्य शर्वरीविरामे सति सा पूर्वोक्ता कृष्णा छाया प्रभोर्वपुरपास्य दूरं गतैव ददृशे इत्यर्थे देवः प्रमाणमिति तदीयसत्यप्रत्ययेन परितोषितो राजा दारिद्र्यद्रोहि पारितोषिकं प्रसादीचकार ॥
१ निजानुभूते a २ शरीरेङ्गितं a ३ दैवतातिशयेन a आत्मीयभावं b ४ पलायमाने D
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258