SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ प्रकाशः] प्रकीर्णकप्रबन्धाः। स्थितं प्राप्य विपणिरमणी तद्वृत्तान्तं ज्ञापिता सती ताभिरेव समानीय प्रेखोलपल्यङ्के मुक्तः । अहोरात्रत्रयान्ते किञ्चित्त्यक्तनिद्रश्चित्रशालादिचित्रं चित्रकारि पश्यन् स्वर्लोकसमुत्पन्नमात्मानं मन्यमानस्तया पणहरिणीदृशा ज्ञापितवृत्तान्तः स्नानपानभोजनादिभिर्भक्तिभिः परितोषितो नृपसभायां समुपेतः पाणिनिव्याकरणं यथावस्थितं व्याचक्षाणो नृपप्रभृतिपण्डितैरशेषैः सक्रियमाणस्तदुपातं सर्वस्वं तस्यै समर्पयामास । अथ तस्य क्रमेण चतुर्णा वर्णानां स्त्रियश्चतस्रः प्रिया अभवन् । तथा क्षत्रियाङ्गजः श्रीविक्रमार्कः, शूद्रीसुतो भर्तृहरिः स हीनजातित्वात् भूमिगृहस्थो गुप्तवृत्त्याध्याप्यते । अपरे त्रयः प्रत्यक्षाः पाठ्यन्ते एवं भर्तृहरिसंकेतेन तेषामध्याप्यमानानां२४) दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य । इति पाठ्यमाने भर्तृहरिरज्जुसंकेतेऽसंजायमाने प्रत्यक्षच्छात्रैस्त्रिभिरुतरार्धे पृच्छ्यमाने कुपित उपाध्याय (स्तेन)रे वेश्यासुत अद्यापि रज्जुसंकेतं न कुरुषे इत्याक्रुष्टः प्रत्यक्षीभूय शास्त्रकोर निन्दन् । २५) आयासशतलब्धस्य प्राणेभ्योऽपि गरीयसः ।। गतिरेकैव वित्तस्य दानमन्या विपत्तयः ॥ इति पाठाद्वित्तस्यैकामेव गतिं मेने । तेन भर्तृहरिणा वैराग्यशतकादिप्रबन्धा भूयांसश्चक्रिरे । इति भर्तृहयुत्पत्तिप्रबन्धः । २३ अथ श्रीधारायां मालवमण्डनस्य श्रीभोजराजस्यायुर्वेदवेदी कश्चित् वाग्भटनामायुर्वेदोदितानि कुपथ्यानि विधाय तत्प्रभावात् रोगान् प्रादुः १ प्रेक्ष्य D २ तं वृत्तान्तं ज्ञापिता a c ३ भर्तृहरः नृहरः ३ ४ यो न ददाति न भुंक्ते तस्य तृतीयागतिर्भवति ॥ इत्युत्तरार्थोपेतः श्लोकोऽयं भतृहरिशतके दृश्यते ५ भर्तृहरी रज्जु P ६ कुपितः उपाध्यायं P ७ आक्रषन् P ८ भर्तृहरिरज्जुसंकेतं न कुरुषे इत्यादिष्टः स प्रत्यक्षीभूय धरासुकारं a * अयं भर्तृहयुत्पत्तिप्रबन्धः पुस्तकान्तरे नोपलभ्यते इति डा. भाउदाजीना लिखितम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003006
Book TitlePrabandh Chintamani
Original Sutra AuthorMerutungacharya
AuthorDurgashankar K Shastri
PublisherFarbas Gujarati Sabha
Publication Year1932
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy