SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ प्रबन्धचिन्तामणिः । इत्यादिभिः स्तुतिभिर्जेनाचार्यैः स्तूयते स्म ॥ ७० अथान्यदा पञ्चग्रामसङ्ग्रामाधिरूढयोः श्रीवीरधवललवणप्रसादयोः श्रीवीरधवलपत्नी राज्ञी जयतलदेवी सन्धिविधानहेतवे जनकं प्रति श्रीशोभनदेवमुपागता । किं वैधव्याद्भीरुः सन्धिबन्धं कारयसीति तेनामिहिता । वीरचूडामणेः पत्युः श्रीवीरधवलस्योन्नतिमारोपयन्ती सा पितृकुलविनाशशङ्कया भूयो भूयोऽहमेवं व्याहरामि । तुरगपृष्टाधिरूढे तस्मिन्वीरधवले स कोऽस्ति सुभटो यस्तत्सम्मुखे स्थास्यतीति व्याहृत्य साव प्रतस्थे । अथ तस्मिन्समरसंरम्भे प्रहारव्यथाव्याकुले श्रीवीरधवले भुवस्तलमलंकुर्वति । (५१) यः पञ्चग्रामसङ्ग्रामभूमौ भीमपराक्रमः । घातैः पपात संजातैरश्वतो न तु गर्वतः ॥ इति किञ्चिदन्तर्भ समरसुभटवर्गे एक एवायं पतिः पतित इति सकलं निजबलमुत्साहयन् श्रीलवणप्रसादः समस्तानपि रिपून लीलयैव समूलकाषं कषितवान् । इत्थमेकविंशतिकृत्वः सत्त्वगुणरोचिष्णू रणरसिकतया क्षेत्रे पितुर पतितः ॥ १७० ७१ अथ वीरधवलस्यायुः पर्यन्ते, प्रति तीर्थं प्रेस्थितेन दत्तमेकधा सहस्रगुणमुपलभ्यत इति रूढे: श्रीतेजः पालेन जन्मसुकृतं ददे । तदनु तस्मिन् स्वामिनि विपन्ने तत्सौभाग्यातिशयात्सेवकानां विंशत्यधिकशतेन सहगमनं चक्रे । तदनु श्रीतेजः पालेन प्रेतवने यामिकान्मुक्त्वा लोकस्य स निर्बन्ध निषिद्धः । [ चतुर्थः ५२) आयान्ति यान्ति च परे ऋतवः क्रमेण संजातमेतदृतुयुग्ममगत्वरं तु । वीरेण वीरधवलेन विना जैनानां वर्षा विलोचनयुगे हृदये निदाघः ॥ १ प्रतिहार श्री के २ प्रस्थितस्य a KCD ३ जनस्य C ४ अशीत्यधिक M Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003006
Book TitlePrabandh Chintamani
Original Sutra AuthorMerutungacharya
AuthorDurgashankar K Shastri
PublisherFarbas Gujarati Sabha
Publication Year1932
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy