________________
प्रकाशः] कुमारपालप्रबन्धः ।
१७१ , अथ श्रीमन्त्रिणा वीरधवलस्य सुतो वीसलदेवो राज्येऽभिषिक्तः । -- ७२ श्रीअनुपमादेव्या विपत्तौ तेजःपालारूढशोकग्रन्थावनिवर्तमानायां तत्रागतैः श्रीविजयसेनसूरिभिर्बलवत्पुरुषैरुपशमितायां विपदि किञ्चिचेतनया सापत्रपः श्रीतेजःपालः सूरिणोचे । वयमस्मिन्नप्यवसरे भवतः कैतवमालोकिंतुमुपेताः । श्रीवस्तुपालेन किमेतदिति पृष्ठा गुरवः प्राहुः । यदस्माभिः शिशोस्तेजःपालस्योपयामाय धरणिगपादिनुपमा कन्या याचिता तदा स्थिरता कृता । तदर्नु तस्याः कन्याया एकान्तविरूपतां निशम्य तत्संबन्धभङ्गाय चन्द्रप्रभजिनप्रतिष्ठितक्षेत्राधिपतेरष्टौ द्रम्माणां भोगमुपायनीचक्रे । इदानीं तद्वियोगग्रन्थेरामनस्यमित्युभयोवृत्तान्तयोः कस्तथ्य इति तन्मूलसंकेताच्छ्रीतेजःपालः स्वहृदयं दृढीचक्रे ॥
७३ अथान्यदावसरे मन्त्री वस्तुपालः पूर्णायुः श्रीशत्रुञ्जयं यियासुरिति मत्वा पुरोधाः सोमेश्वरदेवस्तत्रागतोऽनयेष्वप्यासनेषु मुच्यमानेष्वऽनुपविशन् हेतुं पृष्ट इत्याह
५३) अन्नदानैः पयःपानैर्धर्मस्थानैर्धरातलम् । ____ यशसा वस्तुपालेन रुद्धमाकाशमण्डलम् ॥ इति स्थानाभावान्नोपविश्यते इति तदुक्तेरुचितपारितोषिकदानपूर्व तमापृछ्य मन्त्री पथि प्रस्थितः ।
७४ आकेवालीयाग्रामे देशकुटयां दर्भसंस्तरमारूढो गुरुभिराराधनां कार्यमाण आहारपरिहारपूर्व पर्यन्ताराधनया प्रध्वंसितकलिमलो युगादिदेवमेवं जपन् । ५४) सुकृतं न कृतं किञ्चित्सतां संस्मरणोचितम् ।
मनोरथैकसाराणामेवमेव गतं वयः ॥
......१ ग्रन्थेऽनिवर्तमाने c D.H २ आलोकयितुं D३ स्थिरपत्रदानादनु C H ४ चन्द्रप्रभभिडे a KH M ५ भागमपि याचितीचके a L६ च भूतलं a
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org