SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ प्रबन्धचिन्तामणिः। इति वाक्यप्रान्ते नमोहद्भय इत्यक्षरैः समं परिहत्य सप्तधातुबद्धं शरीरं स्वकृतफलमुपभोक्तुं स्वर्लोकमलंचकार । तत्संस्कारस्थानेऽनुजश्रीतेजपालसुतजैत्रसिंहाभ्यां श्रीयुगादिदेवदीक्षावस्थामूर्तिनालङ्कृतस्वर्गारोहणप्रासादोऽकारि। ५५) अद्य मे फलवती पितुराशा मातुराशिषशिखाङ्कुरिताछ । ययुगादिजिनयात्रिकलोकं प्रीणयाम्यहमशेषमखिन्नः ॥ १ ॥ ५६) नृपव्यापारपापेभ्यः सुकृतं स्वीकृतं न यैः । तान्धूलिधावकेभ्योऽपि मन्येऽधमतरान्नरान् ॥२॥ इत्यादीनि श्रीवस्तुपालमहाकवेः काव्यानि स्वयं कृतान्यमूनि ॥ १७) पूर्णः स्वामिगुणैः स वीरधवलो निर्मान एवं प्रभु विद्वद्भिः कृतभोजराजबिरुदः श्रीवस्तुपालः कविः । तेजःपाल इति प्रधाननिवहेष्वेकश्च मन्त्रीश्वरस्तज्जायानुपमागुणैरनुपमा प्रत्यक्षलक्ष्मीरभूत् ।। इति श्रीमेरुतुङ्गाचार्याविःकृते प्रबन्धचिन्तामणौ श्रीकुमारपालमन्त्रीश्वरवस्तुपालतेजःपालपर्यन्तमहापुरुषयशोवर्णनो नाम चतुर्थः प्रकाशः॥ १ परिहत P २ निःसीम: C Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003006
Book TitlePrabandh Chintamani
Original Sutra AuthorMerutungacharya
AuthorDurgashankar K Shastri
PublisherFarbas Gujarati Sabha
Publication Year1932
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy