SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ श्रीः प्रबन्धचिन्तामणिः । पञ्चमः प्रकाशः प्रकीर्णकप्रबन्धाः । अथ पूर्वोक्तेभ्यो महापुरुषचरितेभ्यो यान्यवशिष्टानि तानि तदितराणि चेह प्रकीर्णकप्रबन्धे प्रारभ्यन्ते । तद्यथा १ समीपस्फुरच्छिप्राश्रवन्त्यांमवन्त्यां पुरि पुरा श्रीविक्रमार्कनृपः, सत्रागारे वैदेशिकं लोकं भोजनानन्तरं निद्रापरं संपन्न दीर्घनिद्रमाकर्ण्य विस्मयस्मेरमानसस्तद्वृत्तान्तं जिज्ञासुस्तान् सर्वानपि वसनपिहितान्विधाप्य तद्वार्ता चापन्हुतां निजाज्ञया विधाय पुनरुपागतानध्वगांस्तथैव भोज - यित्वा प्रदोषे चौष्णोदकं तैलं च तेषां चरणपरिचरणनिमित्तमुपनीय तेषु तेषु प्रसुप्तेषु महानिशायां कृपाणपाणिर्नृपतिर्निभृतीभूय स्वयं यावत्तस्थौ तावदकस्मात्तत्र कोणैकदेशे प्रथमं तावद्भूमोद्गमं तदनु शिखारेखामथ दीप्तफणारत्नप्रभालङ्कृतं सहस्रफणं नागं निर्गतमवलोक्य तच्चित्रचमत्कृतो राजा यावत्साकूतं पश्यति तावत्स फणीन्द्रः किं पात्रमिति तद्दिनसुप्तान् पान्थान् प्रत्येकं प्रपच्छ । अथ ते धर्मपात्रं गुणपात्रं तपः पात्रं रूपपात्रं कामपात्रं कीर्तिपात्रमित्यादीनि वदन्तोऽज्ञानतया यदृच्छया तस्य शापान्मृत्युमश्नुवन्तीति विलोक्याऽथ श्रीविक्रम एव तत्पुरोभूय योजिताञ्जलि: १) भोगीन्द्र बहुधा पात्रं गुणयोगाद्भवेद्भुवि । मनः पात्रं तु परमं शुद्धं श्रद्धावित्रितम् ॥ १ श्रीवत्यां ॥ २ रत्नफणा P ३ सहस्रफणालंकृतं सहस्रफणं P ४ शुद्धश्रद्धा a Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003006
Book TitlePrabandh Chintamani
Original Sutra AuthorMerutungacharya
AuthorDurgashankar K Shastri
PublisherFarbas Gujarati Sabha
Publication Year1932
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy