________________
प्रबन्धचिन्तामणिः ।
[ पश्चमः
अथ निजाशयमेवं भाषमाणं श्रीविक्रमं परितोषाद्वरं वृणीष्वेति प्राह । अथ श्रीविक्रमोऽमून् पथिकानुज्जीवयेति तेन वरे याचिते शेषं विशेषात्परितोषयामास । इति श्रीविक्रमार्कस्य पात्रपरीक्षाप्रबन्धः ॥
२ अथ कदाचित्पाटलीपुरपतनेऽकस्मादमन्दानन्दे नन्दे राज्ञि पञ्चत्वमागते कश्चिद्विप्रस्तत्कालं तदागतः परपुरप्रवेशविद्यया नृपदेहमधितस्थौ । तत्संकेततो द्वितीयो द्विजेो नृपद्वारमुपेत्य वेदोद्गारमुदाहरत् प्रत्युज्जीवितो स नृपः कोशाध्यक्षैस्तस्मै स्वर्णलक्षमदापयत् । अथ तद्वृत्तान्तं विज्ञाय महामात्यो, नन्दः पुरा कदर्योऽभूत् साम्प्रतं तु तदौदार्यमिति वदंस्तं विप्रं विधृत्य परकायप्रवेशकारिणं वैदेशिकं सर्वत्र शोधयन् कापि मृतकं केनापि रक्ष्यमाणमाकर्ण्य चिताप्रवेशाद्भस्मीकृत्य पूर्वमिव तं नन्दं निरुपममतिवैभवान्निजे प्राज्ये साम्राज्ये निर्वाहयामास । इति नन्दप्रबन्धः ॥ *
1
३ अथ खेडेंमहास्थाने देवादित्यविप्रपुत्री बालकाले विधवा निरुपमरूपपात्रं सुभगाभिधाना प्रातः सूर्यं प्रत्यर्घाञ्जलिं क्षिपन्ती अज्ञाततोगादाधानमभूत्कथंचित्तदसमञ्जसं पितृभ्यामवबुध्य मन्दाक्षमुद्रमिति तां प्रति तद्व्याहृत्य स्वपुरुषैर्वलभ्या नगर्या अभ्यासे मुमुचें । तया तत्र प्रसूतः सूनुः क्रमेण वर्धमानः सवयोभिः शिशुभिः निःपितृक इति निर्भ
मानो मातुः समीपे पितरं पृच्छन् तया न जाने इत्यभिहितस्तज्जन्मवैराग्यान्मुमूर्षोः प्रत्यक्षीभूय सविता सान्त्वनापूर्व करे कर्करान्समर्प्य भवन्मातुः सम्पर्ककारिणमर्के स्वं ज्ञापयन् भवतः पराभवकारिणं प्रत्ययं क्षिप्तः शिलारूपो भविष्यतीत्यादिश्य निरपराधस्य कस्यापि क्षिप्तो यदि तवैवाऽनर्थनिबन्धनं ज्ञापयंस्तिरोधत्त । अथेत्थमभिभवकारिणः कांश्चिद्व्यापादयन् शिलादित्य इति सान्वयनाम्ना प्रतीतः । तन्नगरराज्ञा तत्परीक्षायैव तथाकृते तमिलापालं शिलया तया कालधर्ममवापय्य स्वयमेव
१७४
१ तत्संकेतात् द्वितीयदिने CM कथासरित्सागरे संपूर्णा कथास्ति २ खेडा Hc M ३ मूर्खो मुमूर्षुः Hc ४ तत्करं कर्करं c तत्करे D
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org