________________
१३४ प्रबन्धचिन्तामणिः सर्ग. ३ मलंचक्रे । निमित्तिकैस्तस्मिनेवाभ्युदयिके? लग्ने निवेदिते राजा तदैव तस्य सूनो राज्याभिषेकं चकार ॥ सं० ११५० वर्षे पौषवद ३ शनौ श्रवणनक्षत्रे वृषलग्ने श्रीसिद्धराजस्य पट्टाभिषेकः । स्वयं तु, आशापल्लीनिवासिनमाशाभिधानं भिल्लमभिषेणयन् भैरवदेव्याः शकुने जाते तत्र कोछरबाभिधानदेव्याः प्रासादं च करयित्वा षट्लक्षाधिपं भिलं विजित्य तत्र जयन्तीं देवीं प्रासादे स्थापयित्वा तथा कर्णेश्वरदेवतायतनं
1
कर्णसागरतडागालंकृतं चकार । कर्णावतीपुरं निवेश्य स्वयं तत्र राज्यं चक्रे । श्रीपत्तने तेन राज्ञा श्रीकर्णमरुः प्रासादः कारितः ॥ सं० ११२० चैत्रसुदि ७ प्रारभ्य सं० ११५० पौषवदि २ यावत् वर्ष २९ मास ८ दिन २१ अनेन राज्ञा राज्यं कृतं । अथ दिवं गते श्रीकर्णे श्रीमदुदयमतिदेव्या भ्राता मदनपालोऽसमञ्जस वृत्त्याऽवर्त्तत । तेन लीलाभिधानो राजवैद्यो दैवतवरलब्धप्रसादः सकलनागरिकैस्तत्कला चमत्कृतचितैः काञ्चनदानपूजयाऽभ्यर्च्यमानः कदाचिन्नि
१ B D तद्व्यवहाराविरुद्धं विमृशता नृपेण पृष्टैर्नैभित्तिर्कैस्तस्मिन्नेवाभ्युदयिके २ C तत्कलाहृतहृदयैः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org