Book Title: Prabandh Chintamani
Author(s): Ramchandra D Shastri
Publisher: Ramchandra D Shastri

Previous | Next

Page 326
________________ २९० प्रबन्धावन्तामाणः सगः ५ धयितुं सभामण्डपस्य भारपट्टे गुप्तवृत्त्यामून का - व्यानि लिलेख || शैत्यं नाम गुणस्तवैव तदनु स्वाभाविकी स्वच्छता किं ब्रूमः शुचितां व्रजन्त्यशुचयः स्पर्शात्तवैवापरे । किं चातः परमस्ति ते स्तुतिपदं त्वं जीवितं देहिनां त्वं चेन्नीचपथेन गच्छसि पयः कस्त्वां निरोद्धुं क्षमः १ त्वं चेत्सचरसे वृषेण लघुता का नाम दिग्दन्तिनां व्यालैः कङ्कणभूषणानि तनुषे हानिर्न नामपि । मृर्द्धन्यं कुरुषे जडांशुमयशः किं नाम लोकत्रयीदीपस्याम्बुजबान्धवस्य जगतामीशोसि किं ब्रूमहे २ छिन्नं ब्रह्मशिरो यदि प्रथयति प्रेतेषु सख्यं यदि क्षीवः क्रीडति मातृभिर्यदि रतिं धत्ते श्मशाने यदि । सृष्ट्वा संहरति प्रजां यदि तथाप्याधायें भक्त्या मनस्तं सेवे करवाणि किं त्रिजगती शून्या स एवेश्वरः ३ एतस्मिन्महति प्रदोषसमये राजा त्वमेकस्ततो लक्ष्मीमम्बुरुहां पिधाय कुमुदे किं नो तनोषि श्रियः। यद्ब्राह्मी स्थितिरत्र यच्च सुमनः श्रेणीषु संभावना त्वं तावत्कतमोसि तत्तिरयितुं धातापि नैव क्षमः ४ १ A भवन्ति २ AB प्रजां ३ C आदाय ४ D तथैव १ 4 तिरयितुं [ निर्द्धारयितुं आछायितुं वा ૫ Jain Education International For Private & Personal Use Only ― www.jainelibrary.org

Loading...

Page Navigation
1 ... 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378